पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२ )

वाक्यार्थं परामृशन् तच्छब्देन सह नित्यसाकाङ्क्षत्वात् ‘स्वामिन् स सर्वोsपी'त्यादि-त्रिचत्वारिंशत्तमे पद्ये तच्छब्देन सहाऽन्वेति ।)

व्याख्या

 यदैरावणनाम्नो वारणस्येन्द्रहस्तिन ‘ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभा ' इत्यमर । साम्राज्यलक्ष्म्या सार्वभौमश्रियो जयसूचक तोरण बहिर्द्वार तस्याऽभा कान्तिरिवाऽऽभा यस्य तत्तस्मिन् दन्तद्वये रदनयुग्मे ‘रदना दशना दन्ता रदा' इयमर । मदाम्बुसङ्गान्मदजलससर्गान्मिलिता समागताऽलिमाला भ्रमरपङ्क्तिर्वन्दनमालिकेव चूताशोकादिपत्रमालेव' वन्दनवार इति लोके प्रसिद्धा । आस्ते शोभते—स सर्व एव त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेनाऽन्वय । आम्राऽशोकपल्लवं सग्रथिता माला मङ्गलकार्येषु द्वारोपरि निबध्यते । दन्तद्वये विजयतोरणसाम्यादलिमालिकायाश्च वन्दनमालिकासाम्यादुपमा ।

भाषा

 यह जो (मेरे) ऐरावण नामक हाथी के, सब भुवन की विजय श्री के बाहरी फाटक के समान शोभा देने वाले दोनो दातो पर, मदजल के चूत से एकत्रित भौंरे वन्दनवार से दिखाई देते है (वह आपकी चरण सेवा की धूलि का ही प्रभाव है) इसका ४३ वें श्लोक से सम्बन्ध है ।

यदातपत्रं मम नेत्रपद्म-सहस्रलोलालिकदम्बनीलम् ।
कुरङ्गनाभीतिलकप्रतिष्ठां मुखे समारोहति राजलक्ष्म्याः ॥४१॥

अन्वयः

 यत् मम नेत्रपद्मसहस्रलोलालिकदम्बनीलम् आतपत्रं राजलक्ष्म्याः मुखे कुरङ्गनाभीतिलकप्रतिष्ठा समारोहति (स त्वत्पादसेवारजसा प्रभाव इत्यग्रिमेण श्लोकेनाऽन्वितम् ) ।

व्याख्या

 यच्छब्दो वाक्यार्थपरामर्शक । मम मदीय नेत्राण्येव नयनान्येव पद्मानि कमलानि तेषां सहस्रभिदस्य सहस्राक्षत्वात् । तस्मिन्यल्लोलालीना चञ्चलभ्रमराणां लोलालित्वेनाध्यवसितकृष्णवणकनीनिकाना च कदम्ब समूहस्तद्वद्नील, आतपत्रञ्चछत्रं राजलक्ष्म्या राज्यधिपो मुखे वक्त्रे कुरङ्गनाभी कस्तूरी तस्यास्तिलकस्य भालभूषणाङ्कविशेषस्य प्रतिष्ठां स्थितिसमतां समारोहति प्राप्नोति ।