पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५ )

निवेदितश्चारजनेन नाथ तथा क्षितौ सम्प्रति विप्लवो मे ।
मन्ये यथा यज्ञविभागभोगः स्मर्तव्यतामेष्यति निर्जराणाम्

अन्वयः

 नाथ, चारजनेन सम्प्रति क्षितौ तथा विप्लवः मे निवेदितः यथा निर्जराणां यज्ञविभागभोगः स्मर्तव्यताम् एष्यति (इति) मन्ये ।

व्याख्या

 हे भाप के स्वामिम् ब्रह्मन् ! चर एव चारश्चार एव जनस्तेन गुप्तचरेण सम्प्रत्ययुता क्षितौ पृथिव्यां तथा सादृशो विप्लवो डिम्बो 'डिम्बे डमरविप्लवौ' इत्यमरः। नरलुण्ठ्नाद्युपसर्गविशेष इत्यर्थः । मे मह्यं निवेदितो विज्ञापितो यथा येन प्रकारेण निर्जराणां देवानां 'अमरा निर्जरा देवा' इत्यमरः । यज्ञेषु ऋतुषु विभागा देवेभ्योऽर्पणीयद्रव्यविभागास्तेषां भोगो ग्रहणमुपभोगश्च स्मर्तव्यतां स्मरणीयतामेष्यति प्राप्स्यतीति मन्ये जानामि तर्कयामीत्यर्थः । विप्लवैरग्रे देवेभ्यो यज्ञभागा नाऽर्पिता भविष्यन्तीति तर्कयामीतिभावः ।

भाषा

 हे नाथ ब्रह्मा जी ! गुप्तचर ने पृथ्वीन् पर होनेवाले ऐसा उपद्रवो की मुझे सूचना दी है जिनसे देवताओ का,यशों में मिलने वाले भोगो का उपभोग केवल स्मरण करने का ही विषय हो जाएगा, ऐसा में अनुमान करता हु : अर्थात् ऐसे उपद्रवो से भविष्य में यशो में देवताओं को भाग नहीं दिया जाएगा ऐसा मेरा अनुमान है ।

धर्मदुहामत्र निवारणाय कार्यस्त्वया कश्चिदवार्यवीर्यः।
रवेरिवांशुप्रसरेण यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥४५

अन्वयः

 अत्र धर्मदुहां निवारणाय त्वया अवार्यवीर्यः कश्चित् कार्यः । रवेः अंशुप्रसरेण इव यस्य वंशेन ककुभः सुस्थाः क्रियन्ते ।