पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६ )

व्याख्या

 अत्र क्षितौ धर्मद्वहां धर्मद्वेषिणामधर्मपरायणानां निवारणाय विनाशाय त्वया ब्रह्मणाऽवार्यमप्रतिहतं वीर्य पराक्रमो यस्यैवम्भूतः कश्चित् कोऽप्यप्रतिहशक्तिमान्वीरः कार्यः समुत्पादनीयः । रवेः सूर्यस्यांशुप्रसरेण प्रभासन्तानेनैव (यथा सर्वा दिशस्तमोविनाशेन प्रकाशिता भवन्ति तत्स्थाश्च प्राणिनः सुखेन स्वकार्यकरणेन जीवनमतिवाहयन्ति तथैव) यस्याऽवार्यवीर्यस्य वीरस्य वंशेन कुलेन ककुभः सर्वा दिशः ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तत्स्थाः प्राणिन इत्यर्थः। सुखेन तिष्ठन्तीति सुस्था निरुपद्रवाः क्रियन्ते सम्पाद्यन्ते । राज्ञि सूर्यस्य साम्यात्तद्वंशे चांऽशुप्रसरस्य साम्यदुपमा ।

भाषा

 (इसलिये) इस पृथ्वी पर अधर्मियो का नाश करने के लिये आप किसी अप्रतिहतशक्तिशाली वीर की उत्पत्ति करिए, जिसके वंश के फैलने से सब दिशाओं में रहने वाले लोग, उपद्रवो से दूर होकर, प्रसन्न हो, जिस प्रकार सूर्य की किरणो के फैलने से अन्ध कार दूर होकर सब दिशाएँ प्रसन्न हो जाती है ।

पुरन्दरेण प्रतिपाद्यमानमेवं समाकर्ण्य वचो विरिञ्चिः ।
सन्ध्याम्बुपूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥४६॥

अन्वयः

 विरिञ्चिः पुरन्दरेण एवं प्रतिपाद्यमानं वचः समाकर्ण्य सन्ध्याम्बुपूर्णे चुलुके ध्यानानुविद्धानि विलोचनानि मुमोच ।

व्याख्या

 विरिञ्चिर्घाता घाताब्जयोर्निर्द्रुहिणो विरिञ्चिः कमलासनः' इत्यमरः । विरिञ्चिर्विरञ्चिरित्युभयमपि साधु । पुरन्दारयतीति पुरन्दरस्तेनेन्द्रेणैवं पूर्वोक्तं प्रतिपाद्यमानं कम्पमानं वचो वाणीं समाकर्यं श्रुत्वा सन्ध्यासम्बन्ध्यम्बु जलं तेन पूर्णे पूरिते चुक्रुकेऽञ्जलौ ध्यानेनाऽनुविद्धानि ध्यानप्रसक्तानि विलोचनानि नयनानि, चतुर्मुखत्वाद्बहुवचनम् । मुमोच निक्षिप्तवान् ।