पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२ )


उन देवाङ्गनाओं का इस वीर के कारण भय दूर हो जाने से वे इसे हर्ष से टकटकी बाँध कर देखने लगी थी ।

अपि स्वयं पङ्कजविष्टरेण देवेन दृष्टश्चिरमुत्सुकेन ।
वाञ्छाधिकप्रस्तुतवस्तुसिद्धि‌सविस्मयस्मेरमुखाम्बुजेन ॥५३॥

अन्वयः

 वान्छाधिकप्रस्तुतवस्तुसिद्धिसविस्मयस्मेरमुखाम्वुजेन उत्सुकेन पङ्कजविष्टरेण देवेन अपि रवयं चिरं दृष्टः सुभट आबिासीदित्यनेन सम्बन्धः।

व्याख्या

 वाञ्छाया मनोरथादप्यधिका विशेषा या प्रस्तुतवस्तुनोऽतिप्रभावशालिनो राज्ञ: सिद्धिर्निर्माणं तया सविस्मयमाश्चर्ययुक्तं स्मैरमीषद्धास्यं तेन युक्तं मुखाम्बुजं वदनारविन्दं यस्य तेनोत्सुकेनोत्कण्ठितेन पङ्कजं कमलं विष्टरमासनं यस्य तेन कमलासनेन देवेन ब्रह्मणाऽपि स्वयं चिरं चिराय दृष्ट: संवीक्षितः । न केवलं देवाङ्गनाभिरपि तु ब्रह्मणाऽपि साश्चर्यं स्वयं चिरं दृष्टः । मुखेऽस्बुजा- भेदाद्रुपकम्।

भाषा

 अपने मनोरथ से भी अधिक प्रभावशाली नई वस्तु अर्थात् राजा के बन जाने से आश्चर्य युक्त मुस्कुराहट वाले मुखकमल को धारण करने वाले, कमल के आसन पर विराजित उत्सुक ब्रह्मा से भी स्वय चिरकाल तक अवलोकित (एकवीर उत्पन्न हुवा )

कपोपले पौरुपकाञ्चनस्य पङ्के यशःपाण्डुसरोरुहाणाम् ।
 व्यापरयन्दृष्टिमतिप्रहृष्टा--भवान्नपाणिप्रणये कृपाणे ॥५४॥

अन्वयः

 पौरुपकाञ्चनस्य कपोपले यशःपाण्डुसरोरुहाणां पङ्के अवाप्तपाणि प्रणये कृपाणे अतिप्रहृष्टां दृष्टि व्यापारयन् सुभट आबिरासीदित्यनेन सम्बन्धः ।