पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३ )

  पौरुषं पुरुषार्थ एव काञ्चनं सुवर्णं तस्य कपोपले शुद्धघशुद्धिपरिचायक निलयपाणरुपे यशःपाण्डुसरोरुहाणां यशस्स्वरुपशुभ्रपद्मानामुत्पत्तिस्थानरूपे पङ्के कृष्णवर्णपद्माभिन्नेऽवाप्तः प्राप्तः पाणैर्हस्तस्य प्रणयसंग्रहणस्नेहो यस्मिन्नेवं भूते कृपाणे खङ्गेतिप्रहृष्टामतिप्रसन्नां दृष्टिं व्यापारयन् कुर्वन्-सुभट आविरासीदित्यनेनाऽन्वयः । पौरुषे काञ्चनाभेदारोपस्य कृपाणे कपोपलत्वारोपेकारणत्वाद्यशसि श्वेतपद्मारोपस्य च खङ्गे पङ्कत्वारोपे कारणत्वात्परम्परितरुपकद्वयम् ।

भाषा

 पुरुषार्थरुपी सोने में काली कसौटी स्वरूप तथा यशरुपी श्वेत कमलो को उत्पन्न करने वाली तालाव को काली मिट्टो स्वरूप अपने हाथ को प्रिय लगने वाली तलवार को अत्यन्त हर्ष युक्त दृष्टि से देखता हुवा–एक और उत्पन्न हुवा ।

हेमाचलस्येव कृतः शिलाभिरुदारजाम्बूनदचारुदेहः
अथाऽऽविरासोत्सुभटस्त्रिलोकत्राणप्रविणश्चुलुकाद्विधातुः |५५॥

अन्वयः

 अथ उदारजाम्बूनदचारुदेहः’ हेमाचलस्य शिलाभिः क्रुतः इव त्रिलोक त्राणप्रवीणः सुभटः पिधातुः चुलुकात् आविरासीत् ।

व्याख्या

 अथ ब्रह्मणः-दृष्टिपातादनन्तरं उदारं शुद्धं महत् उदारी दातृ महतोः' इत्यमरः । जाम्बूनदमिव सुवर्णमिव 'रुक्मं कार्तस्वरं जाम्बूनदमष्टा पदोऽस्त्रियाम्' इत्यमरः । : सुन्दरो देहः शरीरं यस्य स अतएव हेमाचलस्य सुमेरोश्शिलाभिः कृत इब निर्मित इव त्रिलोकस्य त्रैलोक्यस्य प्राणे रक्षणे समुद्धरणे घ प्रवीणो निपुणः सुभटः सुयोद्धा राजा ब्रह्मणो विधातुदचुलुकादञ्चलेरावि रासीत्प्रादुर्बभूव। देहस्य जाम्बूनदेन सादृश्यादुपमा । सुभटशरीरे सुवर्णाचल शीलानिर्मितत्यस्योत्प्रेक्षणात्क्रियोत्प्रेक्षा ।

इति नवभिः श्लोकैः कुलकम् । दुलकादिलक्षणमभिन्सर्वे घिचवीशतमश्कटिप्पण्या द्रष्टव्यम् ।