पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४५ )

अन्वय

तस्मात् क्रमेण क्ष्माभृत्कुलानाम् उपरि प्रतिष्ठाम् अवाप्य रत्नाकर भोगयोग्यः भृशः शौरेः पदात् गाङ्गः प्रवाहः इव उदियाय ।

व्याख्या

तस्मात् राज्ञः क्रमेण क्रमशः क्षमां पृथ्वीं बिभ्रतो तिक्ष्माभृतो राजानः पर्वताश्च तेषां कुलाति वंशाः समूहाश्च तेषामुपरि प्रतिष्ठां सर्वातिशायिनीं स्थितिमवाप्य लब्ध्वा रत्नानामाकरस्य निधेः पक्षे समुदस्य भोगे सुखानुभवे पक्षे संयोगं योग्यः समर्थो वंशः कुलं शौरेर्विष्णोः पदाच्चरणाद्गाङ्गो गङ्गासम्बन्धी प्रवाह इव उदियायोदितोऽभत् । यथा शौरेः पदात् गाङ्गः प्रवाहः पर्वतानामुपरि स्थितिं लब्ध्वा रत्नाकरसङ्गमयोग्य उदेति तथैव तस्माद्राज्ञः पार्थिवानामुपरि स्थानं लब्ध्वा रत्ननिधेर्भोगे समर्थो वंश उदियायेति भावः । अत्र पूर्णोमालङ्कारः ।

भाषा

उस राजा से, अन्य राजकुलो से अधिक कीर्तिशाली, रत्न के ख़जानो का उपभोग करने के योग्य, विष्णु के चरण से पर्वत समूह पर अपना स्थान बनाता हुआ, समुद्र से जा मिलने में समर्थ गङ्गाप्रवाह के समान, एक वंश आगे चल पडा ।

विपक्षवीराद्भुतकीर्तिहारी हारीत इत्यादिषुमान्स यत्र ।
मानव्यनाम च बभूव मानी मानव्ययं यः कृतवानरीणाम् ॥५८॥

अन्वयः

यत्र विपक्षाद्भुतकीर्तिहारी हारीतः इति आदिपुमान् बभूव । यः अरीणां मानव्ययं कृतवान् सः मानी मानव्यनामा च बभूव ।

व्याख्या

यत्र चालुक्यराजवंशे विपक्षाणमरीणामद्भुताऽश्चर्यकारिणी या कीर्तिर्यंशः 'यशः कीर्तिः समज्ञावेत्यमरः । तस्या हारी विनाशकारी हारीत इति नाम्ना प्रसिद्धो राजाऽऽदिपुरुषः कुलप्रवर्तको बभूव । यः प्रसिद्धोऽरीणां शत्रूणां मान स्याहङ्कारस्य व्ययं नाशं कृतवान् प्रकार स मानी मानयुक्तो मानव्यतामा