पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७६

पुटमेतत् सुपुष्टितम्

( ५१ )

द्वीपक्षमापालपरम्पराणां दोर्विक्रमादुत्खननोन्मुखास्ते ।
विष्णोः प्रतिष्ठेति विभीषणस्य राज्ये परं सङ्कुचिता बभूवुः ॥६६॥

अन्वयः

 दोर्विक्रमात् द्वीपक्षमापालपरम्पराणां उत्सननोन्मुखाः ते विभीषणस्य राज्ये विष्णोः प्रतिष्टा इति परं सङकुचिता बभूवुः ।

व्याख्या

 दोष्णा भुजाना ‘भुजबाहू प्रवेष्टो दो इत्यमर । विक्रमात् पराक्रमात् द्विपानां क्षमा पृथ्वी तस्या पाला पालका द्वीपक्षमा पालयन्तीति वा तेषां परम्परास्तासामुत्खनने, समूलमुन्मूलने उन्मुखास्तत्परास्ते विभीषणस्य राज्ये ।लङ्काया विष्णो प्रतिष्ठा विभीषणस्य रामभक्तत्वाद्विष्णुसाक्षादवतारस्य रामस्य स्थितिस्तत्र वर्तत इति हेतोस्तस्या पूज्यत्व न तु नाश्यत्वमिति लङ्कापुरीनाशन पर केवल सङ्कुचिता बभूवुस्तत्र न जग्मुरित्यर्थ । एतेन तेषां राज्ञां विष्णु-भक्तत्व सनातनधर्मित्वञ्च सूचितम् । केवल विभीषणराज्यद्वीपे विहाय सर्वे द्वीपास्ते स्वायत्तीकृता इति भाव । एतेन लङ्कात् पूर्व सकलोऽपि भूभा-गस्तैविजित आसीदिति सूच्यते ।

भाषा

 अपनी भुजा के पराक्रम से टापुओ के राजाओ को नष्ट कर देने में प्रवृत्त ये दक्षिण चालुक्यवंशीय राजा, लङ्का से रामभक्त विभीषण के राज्य में श्री रामचन्द्र की स्थिति है ऐसा सोचकर केवल उसपर आक्रमण करने में अग्रसर न हुए । अर्थात् केवल विभीषण के टापू लंका को छोङकर अन्य सब टापुओ को उन्होने जीत लिया ।


द्वीपेषु कर्पूरपरागपाण्डु-ष्वास्वाद्य लीलापरिवर्तनानि ।
भ्रान्त्या तुषाराद्रितटे लुठन्त: शीतेन खिन्नास्तुरगा यदीया: ॥६७॥

अन्वयः

यदीया: तुरगाः कर्पूरपरागपाण्डुपु द्वीपेषु लीलापरिवर्तनानि आस्वाद्य तुषाराद्रितटे भ्रान्त्या लुठन्त: शीतेन खिन्ना: ।