पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५६ )

विधाय सैन्यं युधि साक्षिमात्रं दासीकृतायाः प्रतिपक्षलक्ष्म्याः ।
यः प्रातिभाव्यार्थमिवाजुहाव महाभुजः शत्रुनरेन्द्रकीर्तिम् ॥७३॥॥

अन्वयः

 महाभुजः यः युधि सैन्यं साक्षिमात्रं विधाय दासीकृतायाः प्रतिपक्ष लक्ष्म्याः प्रातिभाव्यार्थम् इय शत्रुनरेन्द्रकीर्तिम् प्राजुहाव ।

व्याख्या

 महान् भूजो बाहुर्स्य स दीर्घबाहुर्यस्तैलपो नाम नृपो युधि युद्धे सैन्य सेना साक्षिमात्र विधाय केवल साक्षितामापाद्य स्वयमेव दासीकृताया वशीकृताया प्रतिपक्षाणा शत्रुणा लक्ष्म्या श्रिय प्रतिभू प्रतिलग्नक (जामिन इति भाषायाम् ) तस्य भाव प्रातिभाव्य तदर्थ शत्रवश्चते नरेन्द्राश्च राजानस्तेषा कीतिर्यश आजुहा वाऽहूतवान् । शत्रुनरेन्द्रकीर्तराहृाने प्रातिभाष्यस्य फलत्वेनोत्प्रेक्षणादुत्प्रेक्षा ।

भाषा

 उस तैलप राजा ने युद्ध में सेना को केवल साक्षिमात्र बना कर स्वय अपने पराक्रम से शत्रुओ की राजर क्ष्मी को दासी बनाकर उसकी जमानत करने के लिये विपक्षी राजाओ की कीति को अपने पास बुला लिया । अर्थात् शत्रुओ की राजलक्ष्मी के साथ ही उनकी कीति भी छीन ली ।

अथ पञ्चभिः श्लोकैः सत्याश्रयं वर्णंयति कविः
चालुक्यवंशामलमौक्तिकश्रीः सत्याश्रयोऽभूदथ भूमिपालः ।
खङ्गेन यस्य भृकुटिक्रुधेव द्विपां कपालान्यपि चूर्णितानि ॥७४॥

अन्वयः

 अथ यस्य भ्रुकुटिक्रुधा इव खङ्गेन द्विपा कपालानि अपि चूर्णितानि (सः) चालुक्यवंशामलमौक्तिकश्रीः सत्याश्रयः भूमिपालः अभूत् ।

व्याख्या

 अथ श्री तैलपानन्तर यस्य राज्ञो भ्रुकुटे झुडू तेनेव भृकुटि-प्रदर्शित क्रोधरू पपारिणा खङ्गेनाडसिना द्विषां शत्रुणाकपालान्यपि शिरांस्यपि चूर्णितानि चूर्णी