पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५७ )

 कृतानि स चालुक्यस्य वश” कुलमेव बंशवेणुस्तस्याऽमलं विशुद्धं मोक्तिकं तस्य श्री शोभा यस्मिन्स सत्याश्रयो नाम भूमिपालो राजाऽभूत् । खङ्गोपरि भ्रूकुटि क्रोधस्योत्प्रेक्षणद्वस्तुत्प्रेक्षा। वशे वेणुत्वारोपो राजनि भक्तिकत्वारोपे कारण- मिति परम्परितरूपकम् ।

भाषा

 भी तैलप राजा के अनन्तर चालुक्य कुल में वास के स्वच्छ मोती की कान्ति के समान तेजस्वी सत्याश्रय नाम का राजा हुआ जिसकी क्रुद्धास्था की भ्रूकुटी के क्रोध स्वरूप तलवार ने शत्रुओ के मस्तको को भी चूर २ कर दिया ।

यस्येपवः संयुगयामिनीषु प्रोतप्रतिक्ष्मापतिमौलिरत्नाः।
गृहीतदीपा इव विन्दते स्म खङ्गान्धकारे रिपुचक्रवालम् ॥७५॥

अन्वयः

 संयुगयामिनीषु यस्य प्रोतप्रतिक्ष्मापतिमौलिरत्नाः इषवः गृहीतदीपाः इच खङ्गान्धकारे रिपुचक्रवालं विन्दते स्म ।

व्याख्या

 सयुगा युद्धान्येव यामिन्यो रात्रयस्तासु युद्धरात्रिषु ‘सप्रहाराभि-सम्पातकलि सरफोटसयुगा' इत्यमर । यस्य राज्ञ सत्याश्रयस्य प्रीतान्यनुस्यूतानि प्रतिक्ष्मा पतीना प्रतिपक्षभूपतीना मौलिना मुकुटानां रत्नानि मणयो येषु ते इषवो बाणा। गृहीता दीपा यैस्ते गृहीतदीपा इव, बाणेषु शत्रूणा शिरोरत्नान्यनुस्यूतानि, रत्नकिरणैश्चान्धकाराभाव । खङ्ग एवाऽन्धकार श्यामलत्वात्तस्मिन् रिपूणा शत्रूणा चक्रवाल मण्डलम् । ‘चक्रवालन्तु मण्डलम्' इत्यमर । विन्दते स्म जानन्ति स्म अथवा विचारयन्ति स्म विद विचारणे' इति रुधादिस्थस्य बिब घातोरात्मने पदे लटि प्रथमपुरुषस्य बहुवचने विन्दते' इति रूपम् ) अनुस्यूत राजमौलिरत्नेषु बाणेषु गृहीतदीपकस्य सम्भावनादुत्प्रेक्षा ।

व्याख्या

 युद्धरूपी रात्रियो में, उस सत्याश्रय राजा के, विपक्षी राजाओं के मस्तक के मणियों से नये बाण खङ्गरूपी अन्धकार में शत्रु समूह को, मानो दीपक लेकर पहचान कर रहे थे । अयम् उसके बाण इतने तीखे थे हि मणियों में भी छिद्र कर देते थे और वे मणी उनमें नथ जाते थे ।