पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५८ )

अवन्ध्यपातानि रणाङ्गणेषु सलीलमाकृष्टधनुर्गुणस्य ।
यस्यानमत्कोटितया व्यराज-दस्राणिचुम्बन्निव चापदएडः ॥७६॥

अन्वयः

 रणाङ्गणेषु सलीलम् 'आकृष्टधनुर्गुणस्य यस्य चापदण्डः आनमत्कोटि- तया अवन्ध्यपातानि अस्त्राणि चुम्बन् इव व्यराजत् ।

व्याख्या

 रणा एव युद्धान्येयाऽङ्गणान्यजिराणि ‘अङ्गणं चत्वराजिरे' इत्यमरः । तेषु युद्धाजिरेषु लीलया विलासेन सहित सलीलमाकृष्टो घनुषश्चापस्य गुणो ज्या पेन सः तस्य यस्य सत्याश्रयनृपस्य चापदण्डो धनुर्दण्डः धनश्चापो धन्वशरासन कोदण्डकार्मुकम्' इत्यमरः । आसमन्तान्नमन्त्यो कोटी प्रान्तभाग 'स्त्रिय ' पाल्पधिफोटयः ३ग्यमरः। यस्य तस्य भावस्तत्ता तया प्रव्हीभूताप्रतयाऽवन्ध्योऽ मोघः पातो घातो येषां तानि सफ़लसञ्चलनान्यस्त्राणि चुम्बन्निव प्रेरणा स्पृशन्निव रराज शुशुभे । चापदण्डेऽस्त्रचुम्बनरूप क्रियाया उत्प्रेक्षणा- त्रृक्रियोत्प्रेक्षा ।

भाषा

 युद्धरूपी आगनो में सरलता से धनुष की डोरी को खीचने वाले उस सत्याश्रय राजा का घनुष दोनो नोको के झुक आने से मानो अमोघ मार वाले अस्त्रो का चुम्बन करता हुआ शोभित होता था ।

भूभृत्सहस्रार्पितदेहरन्ध्रैः क्रौञ्चचलच्छिद्रविशारदानाम् ।
सेहे न गर्व पृथुसाहसस्य यस्येषुभिर्भार्गवमार्गणानाम् ॥७७॥

अन्वयः

 पृथुसाहसस्य यस्य भूभृत्सहस्रार्पितदेहरन्ध्रैः इषुभिः क्रौञ्चाचलच्छिद्र- विशारदानां भार्गवमार्गणानां गर्वो न सेहे ।

 3 हसाद्वार भूगुपतियशोवमं यत् क्रौञ्चरन्भ्रमिति मेघदूते कालिदास ।