पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६३ )


धरित्री पृथ्व्याऽऽद्रवेणेन पृथिवी-सञ्चलनजन्य-सङ्कर्षणोत्पन्ननूतनव्रणेनाऽधिष्ठितं युक्तं पृष्ठपीठं पृष्ठभागो यस्य तं कूर्माणां प्रति श्रेष्ठं विष्णुद्वितीयावतारं पृथिव्या आधारभूतेन स्थितं कच्छपपतिमकर्मठं निष्क्रियं ‘कर्मशूरस्तु कर्मठः' इत्यमरः । किं-कर्तव्यता-विमूढं चकार कृतवती ।

भाषा

 जिस राजा जयसिहदेव की युद्धयात्राओं में, चली सेना के बोझे से डगमगाने वाली समग्र पृथ्वी ने, (अपनी रशड से उत्पन्न) ताजे घावो से भरी पीठवाले विष्णु भगवान् के दूसरे अवततार कच्छपराज को घबडाहतट में डाल दिया।


किरीटमाणिक्यमरीचिवीचि-प्रच्छादिता यस्य विपक्षभूपाः।
चिताग्निभीत्या समराङ्गणेषु न संगृहीताः सहसा शिवाभिः ॥८३॥

अन्वयः


 यस्य किरीटमाणिक्यमरीचिवीचिप्रच्छादिताः विपक्षभूपाः समराङ्गणेषु शिवाभिः चितामिभीत्या सहसा न संगृहीताः ।

व्याख्या

 धरय राज्ञः, किरीटेषु मुकुटेषु माणिक्यानि मणयस्तेपां मरीचीनां किरणानां धीचिभिस्तरङ्गैः प्रच्छादिता आयुता विपक्षभूपा विक्षनृपाः समराङ्गणेषु युद्ध- भूमिषु शिवाभिः शृगालीभिः देवीप्यमानत्वाच्चिताग्निभीत्या चिताग्निबुद्धया भयेन सहसा झटिति न समूहीता न भक्षणार्थं परिगृहीता”। माणिक्यमरीचिषु चिताग्निप्रतिपादनाद्भ्रान्तिमानलङ्कारो व्यङ्गय ।

भाषा

 किरीट में लगे हुए मणियो की किरणो बी लहरो से आच्छादित, उस जयसिंह देव राजा वे विपक्षी मृत राजाओं को, युदभूमि में सियारियो मे, उस चमक को चिता की आग समझ कर, डर से क्षीघ्रि ग्रहण नही किंया अर्थात् नही साया ।


यात्रासु दिक्पालपुरीं विलुएट्य न दिग्गज्ञान्केवलमग्रंहीद्यः ।
पलायितास्ते जपमिन्धुराणां गन्धेन सप्तच्छदबान्धवेन ।८४।।