पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६४ )

अन्वयः

 यः यात्रासु दिक्पालपुरीं विलुण्ठ्य दिग्गजान् केयलं न अग्रहीत् । (यतः) ते जयसिन्धुराणां सप्तच्छदबान्धवेन गन्धेन पलायिताः।

व्याख्या

 यो नृपो जपसिंह देवो यानासु युद्धयात्रासु दिक्पालानां दिगोशानां पुरीं नगरीं , अत्र वचनमविवक्षितम् । विलुण्ठ्य लुण्ठयित्वा द्विग्गजान् केवलं नाऽग्रहीत् । दिग्गजान्विहाय सर्वाणि वस्तुजातान्यग्रहीदित्यर्थः । यतस्ते दिग्गजा जय- सिन्धुराणां विजयहस्तिनां सप्तच्छदस्य वृक्षविशेषस्य ‘सप्तपर्णो विशालत्वक् शारदो विषमच्छदः' इत्यमरः । बान्धवस्समानस्तेन गन्धेन मदगन्धेन पलायितः कान्दिशीका जाता: । जयसिन्धुराणा मदगन्धसहनेऽसमर्था दिग्गजा दूरत एव पलायिता इति भावः।

भाषा

 वह राजा अपनी दिगन्त युद्ध यात्राओ में दिक्पालो की पुरियो को लूटकर केवल दिग्गजो को नही पा सका । क्योकि वे दिग्गज इस राजा के विजयी हाथियो के सप्तपर्ण वृक्ष के समान गन्धवाले मद की गन्ध से डरकर भाग गये थे ।

अपारवीरव्रतपारगंस्य पराङ्मुख एव सदा विपक्षाः ।
अधिज्यचापस्य रणेषु यस्य यशः परं सम्मुखमाजगाम ।।८५।

अन्वयः

अपारवीरव्रतपारगस्य अधिज्यचापस्य यस्य रणेषु विपक्षाः सदा पराङ्मुखाः एव परं यशः सम्मुखम् आजगाम।

व्याख्या

 अपारं दुर्गमं यत् वीराणां व्रतं तस्य पारं गच्छतीत्यपारवीरव्रतयारगस्तस्य पूर्णवीरग्रतधारिणो ज्यामधिगत इति अधिज्यश्चापो धनुर्यस्य स तस्य यस्य राज्ञो जससिंहदेवस्य रणेषु युद्धेषु विपक्षाः शत्रवस्सदा नित्यं पराद्धमुखा एव जाताः पराजिता एवेति न सन्मुखा जाता इति भावः । परं किन्तु यश: कीर्तिः सम्मुख- माजगाम । वेयलं कीर्तिस्तु सम्मुखा शग्रवस्तु पराङमुखा एव ।