पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६५ )

भाषा

 युद्धक्षेत्र में असीम वीरव्रत में पारङ्गत, चढ़ी कभानवाले धनुष को धारण करने वाले उस राजा के सामने से शत्रु लोग पराङ्मुख होते थे किन्तु कीर्ति उसके सम्मुख आती थी ।

यशोवतंसं नगरं सुराणां कुर्वन्नगर्वः समरोत्सवेषु ।
न्यस्तां स्वहस्तेन पुरन्दरस्य यः पारिजातस्रजमाससाद ॥८६॥

अन्वयः

 समरोत्सवेषु अगर्व: यः सुराणां नगरं यशोवतंसं कुर्वन् पुरन्दस्य स्वहस्तेन न्यस्तां पारिजातस्रजं आससाद ।

व्याख्या

 सभरा रणा ‘अस्त्रियां समरानीक-रणाः कलहविग्रहौ" इत्यमरः । एषोत्स वास्तेष्वगर्वो दर्परहितो यो जयसिंहदेवः सुराणा देवानां नगरममरावतीसंज्ञक यश एवावतसः शिरोभूषणं यस्य ‘उत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । तम् कुर्वन् सम्पादयन् , स्वर्गपर्यन्तं यशोविस्तृतमिति भावः । पुरन्दरस्येन्द्रस्य स्वहस्तेन निजकरेण न्यस्ता परिथापिता पारिजातस्य देवपुष्पविशेषस्य स्रजं मालामाससाद प्राप्तवान्

भाषा

 युद्ध रुपी उत्सवो में निरभिमानी, देवो की नगरी अमरावती को अपने यश रूपी शिरोभूषण से सुशोभित वरने वाले अर्थात् अपने यश का मुख्य स्थन बनाने वाले राजा ने इन्द्र द्वारा अपने हाथ से पहिनाई हुई पारिजात पुष्प की माला प्राप्त की ।

 इतः परं सर्गन्तमाहवमल्लदेवनामकं राजानं धर्णयति

तस्मादभूदाहवमल्लदेवस्त्रैलोक्यमल्लापरनामधेयः ।
यन्भएडलाग्रं न भुमोच लचमीर्धाराजलोत्था जलमानुषीव ८७॥

अन्वय:

 तस्मात् यन्मण्डलाग्रं घाराजलोथा लक्ष्मीः जलमानुषी इव न मुमोच (एवम्भूतः) त्रैलोक्यमल्लापरनामधेयः आइयमल्लदेव: अभूत्।