पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६८ )

समग्र दुष्ट राजाओं का नाश कर और उन राजाओं के कीर्ति नष्ट कर चारो दिशाओं में रहने वाले मनुष्यों को प्रसन्न कर दिया ।


कौक्षेयकः क्ष्मातिलकस्य यस्य पीत्वातिमात्रं द्विषतां प्रतापम् ।
आलोडथ बाष्पाम्बुभिराचचाम चोलीकपोलस्थलचन्दनानि (l&०॥

अन्वयः

 क्ष्मातिलकस्य यस्य कॉक्षेयकः द्विपतां प्रतापम् अतिमात्रं पीत्वा चोलीकपोलस्थलचन्दनानि बाष्पाम्बुभिः आलोड्य आचचाम ।

व्याख्या

 क्ष्मायाः पृथिव्यास्तिलकस्य भूषणस्य यस्य राज्ञ कौक्षेयक कृपाणः ‘कौक्षेयको मण्डलाग्रः करवाल" कृपाणवत्' इत्यमरः । द्वियता शत्रूणा प्रताप तेजोऽतिमात्रमत्यधिकं पीत्वा, शत्रूणा प्रतापं विनाश्येत्यर्थः । चोलीना चोलदेशीयनारीणां कपोलस्थलेषु गण्डस्थलेषु शोभार्थं सुखार्थञ्च लिप्तान्यपितानि चन्दनानि वाप्पा म्बुभिस्तदीयाश्रुजलैरालोड्य समथ्याऽऽचचाम पीतवान् । कृपाणः प्रतापोष्मणः शान्त्यर्थं चोलस्त्रीबाष्पाम्बुमिश्रितचन्दन पीतवान् । कश्चिदुष्णतानिवारणाय चन्दनमिश्रित जलं शैत्याय सेवत इत्पप्रधृतव्यवहारस्य कृपाणव्यवहारे समारो- पात्समासोक्तिरलङ्कारः। ‘समासोक्ति " समंयत्र कार्यलिङ्गविशषणैः। व्यवहार समारोप प्रस्तुतेऽन्यस्य वस्तुनः' ।

भाषा

 जिस पृथ्वीभूषण राजा के सङ्ग ने शत्रुओ वे प्रताप को पीकर गर्मी होने से चोल देश की नारियों के कपोलो में लगे हुए चन्दन को उनके आंसुओं में घोल कर टढक प्राप्त करने के लिए पी लिया । अर्थात् पतियो के मर जाने से उनके कपोलो पर पहिले का लगा चन्दन उनके आसुओ से धुल गया ।


दीप्रप्रतापानलसन्निधानाद् बिभ्रत्पिपासामिव यत्कृपाणः।
प्रमारपृथ्वीपतिकीर्तिधरां धारामुदारां कवलीचकार ॥४१॥

अन्वयः

 यत्कृपाणः दीप्रप्रतापानलसन्निधानाद् पिपासां बिभ्रद् इव प्रमारपृथ्वीप्ति कीर्तिवाराम् उदारा धारा कवलीचकार ।