पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७५ )

व्याख्या

 यो नृपो भयेन राज्ञो भीत्या मशकसमानं मशकवदल्परुपं विधाय निर्माय क्वचन कंस्मिश्चित्कोणे स्थितस्याऽऽत्मानमपसृत्य विद्यमानस्य कलैः कलियुगस्यो स्सारणकरणेनाऽपसारणार्थं दूरीकरणार्थमिव यागधूमैर्जनितर्धूमैर्भवन जगद्रु रोघाऽऽच्छादितवान् । कलिजनित पापनिवारणार्थ यज्ञा मशकनिवारणार्थं धूमश्च क्रियत इत्याचारः । अत्र क्लेरूत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वे नोत्प्रेक्षणादुत्प्रेक्षालङ्कारः ।

भाषा

 जिस राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानो यज्ञो के धुएँ से पृथ्वी को छा दिया ! (मच्छरो को भगाने के दिए धूवाँ किया जाता है ।

स्वभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविधातहेतोः ।
यस्मिन्परित्रस्त इति क्षितीन्द्रे क्षणं न चिक्षेप कलिः कटाक्षम् ॥१००॥

अन्वयः

 कलिः यस्मिन् छितीन्द्रे स्वभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः दृष्टिविघातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप ।

व्याख्य

 कलिः कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकाप्रकृतिका दुष्णा गभस्तयो यस्य स उष्णगभस्ति सुर्यस्तस्य भास इव भास’ प्रभा ‘स्युः प्रभारुषुचिस्त्विडभा भाश्छविद्युतिदीप्तय.' इत्यमरः । यस्य तस्य क्षतात्त्रायत इति अत्र क्षत्रियकुल तस्योष्मा तेजस्तस्य क्षत्रोष्मण क्षात्रतेजसो दृष्टेर्विघात इति दृष्टिविधात दृष्टिविनाशस्तस्य हेतो' कारणात् परित्रस्तो भयभीत इति हेतुना । क्षण क्षणमात्रमपि कटाक्ष स्वापाङ्गदर्शन 'अपाङ्गौ नेत्रयोरन्ती कटक्षोऽपाङ्ग- दर्शने' इत्यमरः । न चिक्षेप न प्रसारयामास । अत्र क्षत्रोष्मण उष्णभस्तिना सूर्येण सादृश्यप्रतिपादनादुपमालङ्कारः ।

भाषा

 स्वाभाविक सूर्य के समान शेज वाले क्षत्रिय तेज से, दृष्टिनाश होने के भय