पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०५

पुटमेतत् सुपुष्टितम्
९५
षष्ठोऽङ्कः ।

वितानेष्वप्येवं तव मम च सोमे विधिरभू-
 न्निवापाम्भः पूर्वं पिबसि कथमेवं त्वमधुना ॥ ३१ ॥

कृष्णे ! त्वमपि देहि सलिलाञ्जालिम् ।

 द्रौपदी--हञ्जे बुद्धिमदिए ! उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमतिके, उपनय मे सलिलम् ।)

( चेटी तथा करोति )

 द्रौपदी--(उपसृत्य जलाञ्जलिं पूरयित्वा ) महाराअ ! कस्स सलिलं देह्मि । ( महाराज ! कस्य सलिलं ददामि )

 युधिष्ठिरः--

तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् ।
अम्बापि येन गान्धार्या रुदितेषु सखीकृता ॥ ३२ ॥

 द्रौपदी--णाह भीमसेण ! परिअणोवणीदं उदअं सग्गगदस्स दे पादोदअं होदुएदं । ( नाथ भीमसेन ! परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवत्येतत् ।)

 युधिष्ठिरः--फाल्गुनाग्रज !

असमाप्तप्रतिज्ञेऽस्तं गते त्वयि महाभुजे ।
मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ ३३ ॥

 द्रौपदी--उठ्ठेहि महाराअ ! दूरं गच्छदि दे भादा । ( उत्तिष्ठ महाराज ! दूरं गच्छति ते भ्राता ।)

 युधिष्ठिरः--( दक्षिणाक्षिस्पंदनं सूचयित्वा ) पाञ्चालि ! निमित्तानि मे कथयन्ति संभावयिष्यसि वृकोदरमिति ।

 द्रौपदी--महाराअ ! सुनिमित्तं होदु । ( महाराज ! सुनिमित्तं भवतु )

( नेपथ्ये कलकलः)

( प्रविश्य संभ्रांतः ।)

 कंचुकी--परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुछ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते ।