त्परिजनः । भवतु । बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि ( परिकरं बध्नाति । )
कञ्चुकी--देवि पाण्डुस्नुषे ! संयम्यन्तामिदानीं नयनपथावरोधिनो दुःशासनावकृष्टा मूर्धजाः । अस्तमिता संप्रति प्रतीकाराशा । चितासमीपमेव द्रुततरं संभावय ।
युधिष्ठिरः--कृष्णे ! न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्याः केशाः ।
भीमसेनः--( सत्वरं परिक्रम्य ) पाञ्चालि ! न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठ, स्वयमेवाहं संहरामि ।
( द्रौपदी भयादपसर्पति ।)
भीमसेनः-- तिष्ठ भीरु | क्वाधुना गम्यते ? । ( इति केशेषु ग्रहीतुमिच्छति ।)
युधिष्ठिरः--( वेगाद्भीमं गाढमालिङ्ग्य । ) दुरात्मन्! भीमार्जुनशत्रो! सुयोधनहतक!
आशैशवादनुदिनं जनितापराधः |
भीमसेनः--अये कथम्! आर्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति ? आर्य! प्रसीद प्रसीद ।
कञ्चुकी--(निर्वर्ण्य सहर्षम् ।) महाराज! दिष्ट्या वर्धसे । अयं खल्वायुष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीरो दुर्लक्षव्यक्तिः । अलमधुना संदेहेन ।
चेटी--( द्रौपदीमालिङ्ग्य ।) देवि! णिवट्टीअदु णिवट्टीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुमं एव्व अण्णेसदि । (देवि! निवृत्यतां निवृत्यताम् । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति ।)