पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०९

पुटमेतत् सुपुष्टितम्
९९
षष्ठोऽङ्कः ।

 द्रौपदी--हञ्जे ! किं मं अलीअवअणेहिं आसासेसि ? । ( हञ्जे ! किं मामलीकवचनैराश्वासयसि ? ।)

 युधिष्ठिरः--जयंधर ! किं कथयसि ! नायमनुजद्वेषी दुर्योधनहतकः ? ।

 भीमसेनः--देव अजातशत्रो ! कुतोऽद्यापि दुर्योधनहतकः ? । मया हि तस्य दुरात्मनः

भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे
 लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयःसीमया सार्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ
 नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्तराष्ट्रस्य शेषम् ॥ ३९ ॥

( युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमार्जयति । )

 भीमसेनः--( पादयोः पतित्वा । ) जयत्वार्यः ।

 युधिष्ठिरः--वत्स ! बाष्पजलान्तरितनयनत्वान्न पश्यामि ते मुखचन्द्रम् । कथय कच्चिज्जीवति भवान्समं किरीटिना ? ।

 भीमसेनः--निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमोऽर्जुनश्च ।

 युधिष्ठिरः--( पुनर्गाडमालिङ्ग्य । ) तात भीम !

रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः
 प्रियो भ्राता सत्यं त्वमसि मम योऽसौ बकरिपुः ? ।

 भीमसेनः--आर्य ! सोऽहम् ।

 युधिष्ठिरः--

जरासंधस्योरःसरसि रुधिरासारसलिले
 तटाघातक्रीडाललितमकरः संयति भवान् ? ॥ ४० ॥

 भीमसेनः--आर्य ! स एवाहम् । मुञ्चतु मामार्थः क्षणमेकम् ।

 युधिष्ठिरः--किमपरमवशिष्टम् ?

 भीमसेनः--सुमहदवशिष्टम् । संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।

 युधिष्ठिरः--गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।