पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/११०

पुटमेतत् सुपुष्टितम्
१००
वेणीसंहारे

 भीमसेनः--( द्रौपदीमुपसृत्य ।) देवि पाञ्चालराजतनये ! दिष्ट्या वर्धसे रिपुकुलक्षयेण । अलमलमेवंविधं मामालोक्य त्रासेन ।

कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन
 स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि!
कान्ते! राज्ञः कुरूणामतिसरसमिदं मद्गदाचूर्णितोरो-
 रङ्गेऽङ्गेऽसृङ्निषिक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥ ४१ ॥

 बुद्धिमतिके! क्व सा भानुमती ? परिभवतु संप्रति पाण्डवदारान् । भवति यज्ञवेदिसंभवे !

 द्रौपदी-- आणवेदु णाहो । ( आज्ञापयतु नाथः।)

 भीमसेनः-- स्मरति भवती यन्मयोक्तम् । ( चञ्चद्भुज-( १।२१ ), इत्यादि पठति ।)

 द्रौपदी-- णाह ! ण केवलं सुमरामि । अणुहवामि अ णाहस्स प्पसादेण । ( नाथ! न केवलं स्मरामि । अनुभवामि च नाथस्य प्रसादेन । )

 भीमसेनः--( वेणीमवधूय । ) भवति ! संयम्यतामिदानीं धार्तराष्ट्रकुलकालरात्रिर्दुःशासनविलुलितेयं वेणी ।

 द्रौपदी-- णाह! विसुमरिदं एदं वावारं णाहस्स प्पसादेण पुणो वि सिक्खिस्सम् । ( नाथ! विस्मृतमेतं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये)

(भीमसेनो वेणीं बध्नाति ।)

( नेपथ्ये । )

क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि
 प्रत्याशं मुक्तकेशान्यतुलभुजबलैः पार्थिवान्तःपुराणि ।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां
 सोऽयं बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः॥ ४२ ॥

 युधिष्ठिरः-- देवि! एष ते मूर्धजानां संहारोऽभिनन्दितो नभस्तलचारिणा सिद्धजनेन ।

( ततः प्रविशतः कृष्णार्जुनौ ।)