भीमसेनः--[ प्रतिनिवृत्यावलोक्य च । ] सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।
सहदेवः-–आर्य नेदमायुधागारम् । पाञ्चाल्याश्चतुःशालकमिदम् ।
भीमसेनः--किं नाम ? नेदमायुधागारम् ? पाञ्चाल्याश्चतुःशालकामिदम् ? [ विचिन्त्य सहर्षम् ।] आमन्त्रयितव्यैव मया पाञ्चाली । [सप्रणयं सहदेवं हस्ते गृहीत्वा । ] वत्स, आगम्यताम् । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।
(उभौ प्रवेशं नाटयतः।)
सहदेवः--(ससंभ्रमम् ।) आर्य, इदमासनमास्तीर्णम् । अत्रोपविश्यार्यः पालयतु कृष्णागमनम् ।
भीमसेनः--वत्स, कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन प्रकारेण संधिं कर्तुं सुयोधनं प्रति प्रहितः ।
सहदेवः-–आर्य, पञ्चभिर्ग्रामैः ।
भीमसेनः--(कर्णौ पिधाय ।) अहह ! देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । ( परिवृत्य स्थित्वा ।) तद्वत्स ! न त्वया कथितं न च मया भीमेन श्रुतम् ।
यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । |
( नेपथ्ये)
समस्ससदु समस्ससदु भट्टिणी । (समाश्वसितु समाश्वसितु भट्टिनी ।)
सहदेवः--(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति ? तत्कष्टतरमापतितम् ।
यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । |
(ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।)
[द्रौपदी सास्रं निश्वसिति ।]
चेटी-–समस्ससदु समस्ससदु भट्टिणी | अवणइस्संदि दे मण्णुं णिचा