( भीमसेनोऽशृण्वन्नेव ‘मथ्नामे कौरवशतं ( १।१५) इति पुनः पठति ।)
सहदेवः--आर्य ! किं महाराजस्य संदेशोऽयमार्येणाव्युत्पन्न इव गृहीतः ?
भीमसेनः---का पुनरत्र व्युत्पत्तिः
सहदेवः-–आर्य ! एवं गुरुणा संदिष्टम् ।
भीमसेनः----कस्य ?
सहदेवः--सुयोधनस्य ।
भीमसेनः--किमिति ?
सहदेवः--
इंद्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । |
भीमसेनः--ततः किम् ?
सहदेवः-–तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्धाटनमेवेदं मन्ये ।
भीमसेनः--( साटोपम् )वत्स ! एवं कृते किं भवति ।
सहदेवः--आर्य ! एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति । कुरुराजस्यासंधेयता च प्रतिपादिता भवति ।
भीमसेनः--मूढ! सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसंधेयता तदैव प्रतिपादिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । प्रसिद्धश्च लोकेऽपि धार्तराष्ट्रकुलक्षयः ।
( सहदेवो लज्जां नाटयति )
भीमसेनः-–स किं लज्जाकरो भवताम् ? अपि च रे मूर्ख !
युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ! |
द्रौपदी--( जनान्तिकम् ) णाह, ण लज्जन्ति एदे । तुमं वि दाव माविसुमरेहि । ( नाथ ! न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः ।)
भीमसेनः-- ( सस्मरणम् )वत्स ! कथं चिरयति पाञ्चाली ?
सहदेवः--आर्य ! का खलु वेलात्रभवत्याः प्राप्तायाः । किंतु रोषावेशवशादागताप्यार्येण नोपलक्षिता ।