पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२२

पुटमेतत् सुपुष्टितम्
१२
वेणीसंहारे

( नाथ ! असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु । यच्चाम्बा कुन्त्याशास्ते तद्युष्माकं भवतु ।)

  उभौ--प्रतिगृहीतं मङ्गलवचनमस्माभिः ।

 द्रौपदी--अण्णं अ णाह ! पुणो वि तुह्महिं समरादो आअच्छिअ अहं समासासइदव्वा । (अन्यच्च नाथ ! पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या)

 भीमसेनः--ननु पाञ्चालराजतनये ! किमद्याप्यलीकाश्वासनया ?

  भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
  अनि:शेषितकौरव्यं न पश्यसि वृकोदरम् ॥ २६ ॥

 द्रौपदी-–णाह ! मा क्खु जण्णसेणीपरिहवुद्दीविदकोवाणला अणवेक्खिदसरीरा संचरिस्सध । जदो अप्पमत्तसंचरणिज्जाइं रिउवलाइं सुणीअन्ति । ( नाथ ! मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः संचरिष्यथ । यतोऽप्रमत्तसंचरणीयानि रिपुबलानि श्रूयन्ते । )

 भीमसेनः--अयि सुक्षत्रिये !

 अन्योन्यास्फालभिन्नद्विपरुधिरंवसामांसमस्तिष्कपङ्के
  मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ ।
 स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे
  सङ्ग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ २७ ॥

( इति निष्कान्ताः सर्वे ।)

इति प्रथमोऽङ्कः ।