सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजस्य निवेदयामि ( इति निष्क्रान्तः ।)
विष्कम्भकः ।
( ततः प्रविशत्यासनस्या देवी भानुमती सखी चेटी च ।)
सखी--सहि भाणुमदि ! कीस दाणीं तुमं सिविणअदंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा आतिमेत्तं संतप्पसि ? (सखि भानुमति ! कस्मादिंदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्र संतप्यसे ? )
चेटी-- भट्टिणि ! सोहणं भणादि सुवअणा । सिविणअन्तो जणो किं ण प्पलवदि ? (भट्टिमि ! शोभनं भणति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ? )
भानुमती–-हञ्जे ! एव्वंण्णेदं । किं णु एदं सिविणअं अदिमेत्तं अकुसलदंसणं मे पडिभादि ? (हञ्जे एवमिदम् । किंन्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ? )
सखी–-जइ एव्वं ता कहेदु पिअसही । जेण अम्हे वि पडिट्ठावअन्तीओ प्पसंसाए देवदासंकित्तणेण अ पडिहरिस्सामो । (यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासंकीर्तनेन च परिहरिष्यावः ।)
चेटी--देवि ! एन्वंण्णेदं । अकुसलदंसणा वि सिविणआ पंससाए कुसलपरिणामा होन्ति त्ति सुणीअदि । ( देवि ! एवमिदम् । अकुशलदर्शना अपि स्वप्नाः प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।)
भानुमती--जइ एव्वं ता कहइस्सम् । अवहिदा होध । ( यद्येवं तत्कथयिष्ये । अवहिते भवतम् ।)
सखी—-कहेदु पिअसही। ( कथयतु प्रियसखी )
भानुमती--मुहुत्तअं चिट्ठ जाव सव्वं सुमरिस्सम् । ( मुहूर्तं तिष्ठ यावत्सर्वं स्मरिष्यामि । ( इति चिन्तां नाटयति ।)
( ततः प्रविशति दुर्योधनः कञ्चुकी च )
दुर्योधन-- सूक्तमिदं कस्यचित् ।
गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः । |