पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२६

पुटमेतत् सुपुष्टितम्
१६
वेणीसंहारे

 प्रालेयमिश्रमकरन्दकरालकोशैः
  पुष्पैः समं निपतिता रजनीप्रबुद्धैः ।
 अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध-
  संसूचितानि कमलान्यलयः पतन्ति ॥ ७ ॥

 राजा--( समन्तादवलोक्य । ) विनयंधर ! इदमपरममुष्मिन्नुषसि रमणीयतरम् । पश्य ।

 जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै--
  र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः ।
 स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा
  मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ ८ ॥

 कञ्चुकी–- देव नन्वेषा देवी सुवदनया तरलिकया च सहोपविष्टा तिष्ठति । तदुपसर्पतु देवः ।

 राजा-- ( दृष्ट्वा । ) आर्य विनयंधर ! गच्छ त्वं साङ्ग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।

 कञ्चुकी--यथाज्ञापयति देवः (इति निष्क्रान्तः ।)

 सखी--पिअसही ! अवि सुमरिदं तुए ? ( प्रियसखि ! अपि स्मृतं त्वया ? )

 भानुमती-- सहि ! सुमरिदम् । अज्ज किल पमदवणे आसीणाए मह अग्गदो एव्व दिव्वरूविणा णउलेण अहिसदं वावादिदम् ( सखि ! स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् । )

 उभे--( आत्मगतम् ।) सन्तं पावम् । पडिहदं अमङ्गलम् । (प्रकाशम् ) तदो तदो । ( शान्तं पापम् । प्रतिहतममङ्गलम् । ततस्ततः ।)

 भानुमती-- अदिसंदावोवग्गाहिअहिअआए विसुमरिदं मए । ता पुणोविसुमरिअ कहइस्सम् (अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । )

 राजा--अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम् । ( इति तथा स्थितः )