सखी--सहि ! अलं संदावेण । कहेदु पिअसही । ( सखि ! अलं संतापेन । कथयतु प्रियसखी । )
राजा–-किं नु खल्वस्याः संतापकारणम् । अथवानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति! अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया |
( विचिन्त्य । ) अथवा ।
इयमस्मदुपाश्रयैकचित्ता |
तथापि श्रृणुमस्तावत्किं नु वक्ष्यतीति ।
भानुमती—- तदो अहं तस्स अदिसइददिव्वरूविणो णउलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसणट्ठाणं लदामण्डवं पविसिदुं आरद्धा । ( ततोऽहं तस्यातिशायितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा ।)
राजा-- ( सवैलक्ष्यम् ।) किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च ? तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः? ( सोत्प्रेक्षम् । 'इयमस्मत्'- ( २।१०) इति पठित्वा । ) मूढ दुर्योधन! कुलटाविप्रलभ्यमानमात्मानं बहु मन्यमानोऽधुना किं वक्ष्यसि ? ( 'किं कण्ठे:'( २।९ ) इत्यादि पठित्वा । दिशोऽवलोक्य । ) अहो, एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसार: क्वापि परिभ्रान्तः । आः पापे! मत्परिग्रहपांसनि !
३