भानुमती-- (दिनकाराभिमुखी भूत्वा ।)भअवं ! अम्बरमहासरेक्कसहस्सपत्त ! पुव्वदिसावहूमुहमण्डलकुङ्कुमविसेसअ ! सअलभुवणाङ्गणदीवअ ! एत्थ सिविणअदंसणे जं किं वि अच्चाहिदं तं भअवदो प्पणोमण कुसलपरिणामी ससदब्भादुअस्स अज्जउत्तस्स होदु । ( अर्घ्यं दत्वा ।) हला ! उवणेहि मे कुसुमाइं जाव अवराणं वि देवदाणं सवरिअं णिव्वट्टेमि । ( हस्तौ प्रसारयति । ) ( भगवन् ! अम्बरमहासरएकसहस्रपत्र ! पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक ! सकलभुवनाङ्गनदीपक ! अत्र स्वप्नदर्शने यत्किमप्यत्याहितं तद्भगवतः प्रणामेन कुशलपरिणामि सशतभ्रातृकस्यार्यपुत्रस्य भवतु । हला ! उपनय मे कुसुमानि यावदपरासामपि देवतानां सपर्यां निर्वर्तयामि ।)
( राजा पुष्पाण्युपनयति । स्पर्शसुखमभिनीय च कुसुमानि भूमौ पतियति ।)
भानुमती--( सरोषम् ।) अहो प्पमादो परिअणस्स । ( परिवृत्य दृष्ट्वा । ससंभ्रमम् । ) कधं अज्जउत्तो ? ( अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ? )
राजा--देवि ! अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।
( भानुमती लज्जां नाटयति ।)
राजा--अयि प्रिये !
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः |
भानुमती--अज्जउत्त ! अब्भणुण्णादाए तुए अत्थि मे कस्सिं वि णिअमे अहिलासो । ( आर्यपुत्र ! अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः ।)
राजा--श्रुतविस्तर एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेनं प्रकृतिसुकुमारमात्मानं खेदयितुम् ।