पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३२

पुटमेतत् सुपुष्टितम्
२२
वेणीसंहारे

 भानुमती–-अज्जउत्त ! सङ्का मे बाहेदि । ता अणुमण्णदु मं अज्जउत्तो । (आर्यपुत्र ! शङ्का मां बाधते । तदनुमन्वतां मामार्यपुत्रः ।)

 राजा--( सगर्वम् ।) देवि ! अलमनया शङ्कया । पश्य ।

किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं ?
 किं द्रोणेन ? किमङ्गराजविशिखैरेवं यदि क्लाम्यसि ।
भीरु ! भ्रातृशतस्य मे भुजवनच्छायासुखोपास्थिता ।
 त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ? ॥ १७ ॥

 भानुमती--अज्जउत्त ! ण हु मे किं वि आसङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जउत्तस्स एव्व मणोरहसंपत्तिं अहिणन्दामि । ( आर्यपुत्र ! न खलु मे किमप्याशङ्काकारणं युष्मासु संनिहितेषु । किंत्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।)

 राजा--अयि सुन्दरि ! एतावन्त एव मे मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।

प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं
 लज्जायोगादविशदकथं मन्दमन्दस्मितं वा ।
वक्त्रेन्दुं ते नियममुषितालक्तकाङ्काधरं वा
 पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ? ॥ १८ ॥

( नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।)

 भानुमती--(सभयं राजानं परिष्वज्य ।) परित्ताअदु परित्ताअदु अज्जउत्तो ।( परित्रायतां परित्रायतामार्यपुत्रः ।)

 राजाः--( समन्तादवलोक्य ।) प्रिये ! अलं संभ्रमेण । पश्य ।

दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे
 झाङ्कारी शर्करालः पथिषु विटपिनां स्कंधकोषैः सधूमः ।
प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर-
 श्चण्डारम्भः समीरो वहति परिदिशं भीरु ! किं संभ्रमेण ? ॥ १९ ॥

 सखी--महाराअ ! आरोहीअदु एदं दारुपव्वदुप्पासादम् । उव्वेअकारी क्खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उन्मूलिदतरुवरसद्दवित्त