पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३३

पुटमेतत् सुपुष्टितम्
२३
द्वितीयोऽङ्कः ।

त्थमन्दुरापरिब्भट्टवल्लहतुलङ्गमपज्जाउलीकिदजणपद्धई भीसणो समीरणो । (महाराज ! आरुह्यतामेष दारुपर्वतप्रासादः । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दविवस्तमन्दुरापरिभ्रष्टवल्लभतुरङ्गमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणः ।

 राजा--( सहर्षम् । ) उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितोऽस्मन्मनोरथः । कथमिति?

न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने
नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः ।
तन्व्या मग्नपयोधरं भयवशादारब्धमालिङ्गितुं
भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥ २० ॥

तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।

( सर्वे वात्याबाधां रूपयन्तः परिक्रामन्ति ।)

 राजा--

 कुरु घनेरु ! पदानि शनैः शनैरयि ! विमुञ्च गतिं परिवेपिनीम् ।
 सुतनु ! बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ २१ ॥

( प्रवेशं रूपयित्वा । ) प्रिये ! अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् ।

 भानुमती--( सहर्षम् । दिट्ठिआ इअ दाव उप्पादसमीरणो ण बाधेइ । ( दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।)

 सखी--आरोहणसंभमणीसहं पिअसहीए ऊरुजुअलम् । ता कीस दाणिं महाराओ आसणवेदीं ण भूसेदि । ( आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।)

 राजा--( देवीमवलोक्य । ) भवति ! अनल्पमेवापकृतं वात्यासंभ्रमेण । तथाहि ।

रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा-
दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति ।