पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३४

पुटमेतत् सुपुष्टितम्
२४
वेणीसंहारे

ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वर्धतेऽस्या ।
 वात्या खेदं मृगाक्ष्याः सुचिरमवयवैर्दत्तहस्ता करोति ॥ २२ ॥

( सर्वे उपविशन्ति ।)

 राजा--तत्किमित्यनास्तीर्णं कठिनशिलातलमध्यास्ते देवी ? ।

 लोलांशुकस्य पवनाकुलितांशुकान्तं
  त्वद्दृष्टिहारि मम लोचनबान्धवस्य ।
 अध्यासितुं तव चिरं जघनस्थलस्य
  पर्याप्तमेव करभोरु! ममोरुयुग्मम् ॥ २३ ॥

( प्रविश्य पटाक्षेपेण संभ्रान्तः । )

 कञ्चुकी--देव ! भग्नं भग्नम् ।

( सर्वे सातङ्कं पश्यन्ति ।)

 राजा-- केन ?

 कञ्चुकी-- भीमेन ।

 राजा-- कस्य ?

 कञ्चुकी-- भवतः ।

 राजा-–आः किं ! प्रलपसि ?

 भानुमती:--अज्ज ! किं अणिट्ठं मन्तेसि ।( आर्य ! किमनिष्टं मन्त्रयसे ।)

 राजा--धिक्प्रलापिन् ! वृद्धापसद ! कोऽयमद्य ते व्यामोहः ।

 कञ्चुकी-- देव ! न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।

 भग्नं भीमेन भवतो मरुता रथकेतनम् ।
 पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥ २४ ॥

 राजा-- बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ? ।

 कञ्चुकी--देव ! न किंचित् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति ।