पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४१

पुटमेतत् सुपुष्टितम्
३१
तृतीयोऽङ्कः ।

 राक्षसः–-वशागन्धे ! तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पादुं पडिण्णादम् । तं अ अह्मेहिं लख्खशेहिं अनुप्पविशिअ पादव्वम् । ( वसागन्धे ! तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातम् । तच्चास्माभी राक्षसैरनुप्रविश्य पातव्यम् ।)

 राक्षसी--( सहर्षम् । ) शाहु । शामिणीए ! शाहु । शुशंविहाणे मे भत्ता किदे । ( साधु स्वामिनि ! साधु । सुसंविधानो मे भर्ता कृतः ।)

( नेपथ्ये महान्कलकलः । )

 राक्षसी--( आकर्ण्य ससंभ्रमम् । ) अले लुहिलप्पिआ ! किं णु क्खु एशे महन्ते कलअले शुणीअदि ? (अरे रुधिरप्रिय ! किं नु खल्वेष महान्कलकलः श्रूयते ? । )

 राक्षसः--( दृष्ट्वा । )वशागन्धे ! एशे क्खु धिट्टज्जुण्णेण दोणे केशेशु आकट्टिअ अशिवत्तेण व्वावादीअदि । ( वसागन्धे ! एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते । )

 राक्षसी--( सहर्षम् । ) लुहिलप्पिआ ! एहि । गच्छिअ दोणश्श लुहिलं पिवह्म । ( रुधिरप्रिय ! एहि । गत्वा द्रोणस्य रुधिरं पिबावः ।)

 राक्षस--( सभयम् । ) वशागन्धे ! बम्हणशोणिअं क्खु एदं गलअं दहन्ते दहन्ते प्यविशदि । ता किं एदिणा । ( वसागन्धे ! ब्राह्मणशोणितं खल्वेतद्गलं दहद्दहत्प्रविशति तत्किमेतेन ? )

( नेपथ्ये पुनः कलकलः । )

 राक्षसी--लुहिलप्पिआ ! पुणेवि एशे महन्ते कलअले शुणीअदि । ( रुधिरप्रिय ! पुनरप्येष महान्कलकलः श्रूयते । )

 राक्षसः--( नेपथ्याभिमुखमवलोक्य । ) वशागन्धे ! एशे क्खु अश्शत्थामे आकट्टिदाशिवत्ते इदो एव्व आअच्छदि । कदावि दुवदशुदलोशेण अम्हेवि व्वावादइश्शइ । ता एहि । अतिक्कमह्म । ( वसागन्धे ! एष खल्वश्वत्थामाकृष्टासिपत्र इत एवागच्छति । कदाचिदद्रुपद्सुतरोषेणावामपि व्यापादयिष्यति । तदेहि । अतिक्रमावः ।)

( इति निष्क्रान्तौ । )

इति प्रवेशकः ।