पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४३

पुटमेतत् सुपुष्टितम्
३३
तृतीयोऽङ्कः ।

अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः कुरुध्वे? ॥ ६ ॥

अपि च ।

 अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौवार्यमाणे
  सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
 कर्णालं संभ्रमेण व्रज कृप ! समरं मुञ्च हार्दिक्य ! शङ्कां ।
  ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ?॥ ७ ॥

(नेपथ्ये । )

कुतोऽद्यापि ते तातः ? ।

 अश्वत्थामा--( श्रुत्वा । ) किं ब्रूथ ?-- 'कुतोऽद्यापि ते तात' इति । ( सरोषम् । ) आः क्षुद्राः ! समरभीरवः ! कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया ? ।

 दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का
  वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः ।
 छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः
  पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ? ॥ ८ ॥

( प्रविश्य संभ्रान्तः सप्रहारः । )

 सूतः--परित्रायतां परित्रायतां कुमारः । ( इति पादयोः पतति । )

 अश्वत्थामा--( विलोक्य । ) अये कथं ! तातस्य सारथिरश्वसेनः ? । आये ! ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि ? ।

 सूतः--( सकरुणम् । ) कुतोऽद्यापि ते तात: ? ।

 अश्वत्थामा--( सावेगम् । ) किं तातो नामास्तमुपगतः ? ।

 सूतः--अथ किम् ? ।

 अश्वत्थामा--हा तात ! ( इति मोहमुपगतः ।)

 सूतः--कुमार ! समाश्वसिहि समाश्वसिहि ।

 अश्वत्थामा--( लब्धसंज्ञः सास्रम् ) हा तात ! हा सुतवत्सल ! हा लोकत्रयैकधनुर्धर ! हा जामदग्न्यास्त्रसर्वस्वप्रतिग्रहप्रणयिन् क्वासि ? । प्रयच्छ मे प्रतिवचनम् ।