पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५१

पुटमेतत् सुपुष्टितम्
४१
तृतीयोऽङ्कः ।

एह्यस्मदर्थहततात ! परिष्वजस्व
क्लान्तैरिदं मम निरन्तरमङ्गमङ्गैः ।
स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते
शोकेऽपि यो महति निवृतिमादधाति ॥ २९ ॥

( इत्यालिङ्ग्य पार्श्व उपवेशयति ।)

( अश्वत्थामा बाष्पमुत्सृजति ।)

 कर्णः-- द्रौणायन ! अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य ।

 दुर्योधनः-- आचार्यपुत्र ! को विशेष आवयोरस्मिन्व्यसनमहार्णवे ? । पश्य ।

तातस्तव प्रणयवान्स पितुः सखा मे
 शस्त्रे यथा तव गुरुः स तथा ममापि ।
किं तस्य देहनिधने कथयामि दुःखं ।
 जानीहि तद्गुरुशुचा मनसा त्वमेव ॥ ३० ॥

 कृपः-- वत्स ! यथाह कुरुपतिस्तथैवैतत् ।

 अश्वत्थामा-- राजन् ! एवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम् । किं तु

मयि जीवति मत्तातः केशग्रहमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ? ॥ ३१ ॥

 कर्णः-- द्रौणायन ! किमत्र क्रियते ? यदा तेनैव सर्वपरिभवपरित्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः ।

 अश्वत्थामा-- अङ्गराज ! किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते ।

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
 यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
 क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥ ३२ ॥

अपि च । भो जामदग्न्यशिष्य कर्ण!