पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५७

पुटमेतत् सुपुष्टितम्
४७
तृतीयोऽङ्कः ।

 अश्वत्थामा--कथमियममानुषी वाङ्नानुमनुते सङ्ग्रामावतरणं मम ? । आः पक्षपातिनो देवा अपि पाण्डवानाम् । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः, कष्टं कष्टम् ।

दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम् ।
दुर्योधनस्य कर्तास्मि किमन्यत्प्रियमाहवे ॥ ४९ ॥

मातुल ! राधेयक्रोधवशादनार्यमस्माभिराचरितम् । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव ।

 कृपः--गच्छाम्यहमत्र प्रतिविधातुम् । भवानपि शिबिरसंनिवेशमेव प्रतिष्ठताम् ।

( परिक्रम्य निष्क्रान्तौ ।)

इति तृतीयोऽङ्कः ।