पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५८

पुटमेतत् सुपुष्टितम्

वेणीसंहारे ।

चतुर्थोऽङ्कः।


( ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । )

( सूतः ससंभ्रमं परिक्रामति ।)

( नेपथ्ये । )

 भो भो ! बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणीकृतप्राणद्रविणसंचया नरपतयः ! संस्तभ्यन्तां निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि रणात्प्रद्रवन्ति बलानि ।

 सूतः--( विलोक्य ।) कथम् । एष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिनरकलेवरसहस्रसमर्दविषमोद्घातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरचक्रपराक्रमप्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त ! जातमस्मद्बलानामवलम्बनम् ।

( नेपथ्ये कलकलानन्तरम् ।)

 भो भो अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः। पाण्डवपक्षपातिनश्च योधाः ! न भेतव्यं न भेतव्यम् । अयमहं निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्टप्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् ।

राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
 प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
 कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ १ ॥

 सूतः--( श्रुत्वा सभयम् । ) कथम् ! आसन्न एव दुरात्मा कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः । अनुपलब्धसंज्ञश्च महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिद्दुःशासन इवास्मिन्नप्ययमनार्योऽनार्यमा-