चरिष्यति । ( त्वरितं परिक्रम्यावलोक्य च ।) अये! अयमसौ सरसीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपादपः । उचिता विश्रामभूमिरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा देशापरिणामयोग्येन सरसीसमीरणेनामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथोऽनिवारित एव प्रवेक्ष्यति च्छायामिति । ( प्रवेशं रूपयित्वा ! ) कः कोऽत्र भोः? ( समन्तादवलोक्य । ) कथं, न कश्चिदत्र परिजनः? । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसंनिवेशमेव प्रविष्टः । कष्टं भोः! कष्टम्! ।
दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः |
( राजानमवलोक्य । )कथमद्यापि चेतनां न लभते महाराजः? भोः! कष्टम् । ( निःश्वस्य । )
मदकलितकरेणुभज्यमाने |
ननु भो हतविधे! भरतकुलविमुख!
अक्षतस्य गदापाणेरनारूढस्य संशयम् । |
दुयोधनः--( शनैरुपलब्धसंज्ञः ।) आः, का शक्तिरस्ति दुरात्मनो वृकोदरहतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुम्? वत्स दुःशासन! न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि । ननु सूत! प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः ।
सूतः–- आयुष्मन्! अक्षमाः संप्रति वाहास्ते रथमुद्वोढुम् । (अपवार्य) मनोरथं च ।