रक्षणीयेन सततं बालेनाज्ञानुवर्तिना । |
सूतः--महाराज ! मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहृतचेतनत्वान्निश्चेष्टः कृतो महाराज इत्यपहृतो मया रथः ।
दुर्योधनः--सूत ! विरूपं कृतवानसि ।
तस्यैव पाण्डवपशोरनुजद्विषो मे |
( निश्वस्य । नभो विलोक्य । ) ननु भो हतविधे ! कृपाविरहित ! भरतकुलविमुख !
अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः ।।
सूतः--शान्तं पापं शान्तं पापम् । महाराज ! किमिदम् ?
दुर्योधनः--
घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ? ॥ ९ ॥
( ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालंकृतकायः सुंदरकः । )
सुन्दरकः--अज्जा ! अवि णाम इमस्सिं उद्देसे सारहिदुईओ दिट्ठो तुह्मेहिं महाराअदुज्जोहणो ण वेत्ति । ( निरूप्य । ) कहं ण को वि मन्तेदि । होदु । एदाणं बद्धपरिअराणं पुरिसाणं समूहो दीसइ । एत्थ गदुअ पुच्छि स्सम् । ( परिक्रम्य विलोक्य च । ) कहं एदे क्खु सामिणो गाढप्पहारहदस्स घणसण्णाहजालदुब्भेज्जमुहेहिं कङ्कवअणेहिं हिअआदो सल्लाइं उद्धरन्ति । ता ण हु एदे जाणन्ति । होदु । अण्णदो विचिणइस्सम् । ( अग्रतोऽवलोक्य किंचित्परिक्रम्य । ) इमे क्खु अवरे प्पहूददरा संगदा वीरमणुस्सा दीसन्ति । ता एत्थ गदुअ पुच्छिस्सम् । ( उपगम्य ।)हंहो ! जाणघ तुह्मे कस्सिं उद्देसे कुरुणाहो वट्टइ त्ति । ( दृष्ट्वा । ) कहं एदे वि मं पेक्खिअ अहिअदरं रोअन्दि । ता ण हु एदे वि जाणन्ति । हा अदिकरुणं क्खु एत्थ वट्टइ । एसा वीलमादा समलविणिहदं पुत्त अं सुणिअ रत्तंसुअणिव