पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६३

पुटमेतत् सुपुष्टितम्
५३
चतुर्थोऽङ्कः ।

कथमेतेऽपि मां प्रेक्ष्याधिकतरं रुदन्ति | तन्न खल्वेतेऽपि जानन्ति । हा ! अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभूषणया वध्वा सहानुम्रियते । साधु वीरमातः ! साधु । अन्यस्मिन्नपि जन्मान्तरेऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतः प्रेक्ष्यामि । अयमपरो बहुप्रहारनिहतकायोऽकृतव्रणबन्ध एव योधसमूह इमं शून्यासनं तुरंगममुपालभ्य रोदिति नूनमेतेषामत्रैव स्वामी व्यापादितः । तन्न खल्वेतेऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रेक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्भागधेयविषमशीलतया पर्याकुलो जनः ? । तत्कमिदानीमत्र प्रक्ष्यामि । कं वोपालप्स्ये । भवतु । स्वयमेवात्र विचेष्यामि । भवतु दैवमिदानीमुपालप्स्ये । हंहो देव ! एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृपकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलैकनाथो महाराजदुर्योधनोऽप्यन्विष्यते ? । अन्विष्यमाणोऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति । अथ वा किमत्र दैवमुपालभे । तस्य खल्विदं निर्भर्त्सितविदुरवचनबीजस्यावधीरितपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनादिविरूढमूलस्य जतुगृहद्यूतविषशाखिनः संभूतचिरकालसंबद्धवैरालवालस्य पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति । यथात्रैष विविधरत्नप्रभासंवलितसूर्यकिरणप्रसूतशक्रचापसहस्रसपूरितदशदिशामुखो लूनकेतुवंशो रथो दृश्यते तथा तर्कयाम्यवश्यमनेन महाराजदुर्योधनस्य विश्रामोद्देशेन भवितव्यमिति । यावन्निरूपयामि । कथमेकादशानामक्षौहिणीनां नायको भूत्वा महाराजोदुर्योधनः प्राकृतपुरुष इवाश्लाघनीयायां भूमावुपविष्टस्तिष्ठति । अथवा तस्य खल्विदं पाञ्चाली केशग्रहकुसुमस्य फलं परिणमति ।)

( उपसृत्य दृष्ट्वा ।)

 सुन्दरकः--( उपगम्य । ) जअदु जअदु महाराओ । ( जयतु जयतु महाराजः ।)

 दुर्योधनः--( विलोक्य । ) अये ! सुन्दरकः । सुन्दरक ! कच्चित्कुशलमङ्गराजस्य ?।

 सुन्दरकः--देव ! कुसुलं सरीरमेत्तकेण ।( देव ! कुशलं शरीरमात्रेण । )

 दुर्योधनः--किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः ? ।

 सुन्दरकः--देव ! ण भग्गो रहो । से मणोरहो वि । ( देव ! न भग्नो रथः । अस्य मनोरथोऽपि । )

 दुर्योधनः-- किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयम् । अशेषतो विस्पष्टं कथ्यताम् ।