पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६४

पुटमेतत् सुपुष्टितम्
५४
वेणीसंहारे

 सुन्दरकः--जं देवो आणवेदि । अए ! देवस्स मउडमणिप्पहावेण अवणीदा मे रणप्पहारवेअणा । ( इति साटोपं परिक्रम्य । ) सुणादु देवो । अत्थि दाणीं कुमालदुस्सासणवह–( यद्देव आज्ञापयति । अये ! देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्तीदानीं कुमारदुःशासनवध-- । ) ( इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति ।)

 सूतः--सुन्दरक ! कथय । कथितमेव दैवेन ।

 दुर्योधनः--कथ्यताम् श्रुतमस्माभिः ।

 सुन्दरकः--( स्वगतम् । )कधं ! दुस्सासणवहो सुदो देवेण ? । ( प्रकाशकम् । ) सुणादु देवो । अज्ज दाव कुमालदुस्सासणवहामरिसिदेण सामिणा अङ्गाराएण किदकुडिलभिउडीभङ्गभीसणललाडवट्टेण अविण्णादसंधाणमोक्खणिक्खित्तसरधारावरिसेण अभिजुत्तो सो दुराआरो दुस्सासणवेरिओ मज्झमपण्डवो । ( कथं ! दुःशासनवधः श्रुतो देवेन ? । शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनांगराजेन कृतकुटिलभृकुटीभंगभीषणललाटपट्टनाविज्ञातसंधानमोक्षनिक्षिप्तशरंधारावर्षेणाभियुक्तः स दुराचारी दुःशासनवैरी मध्यमपाण्डवः ।)

 उभौ--ततस्ततः ।

 सुन्दरकः--तदो देव ! उहअबलमिलन्तदीप्पन्तकरितुरअपदादिसमुब्भूदधूलिणिअरेण पल्लत्थतत्तग्गअघडासंघादेण अ वित्थरन्तेण अन्धआरेण अन्धीकिदं उहअबलम् । ण हु गगणतलं लक्खीअदि । ( ततो देव! उभयबलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्ततत्तद्गजघटासंघातेन च विस्तीर्यमाणेनान्धकारेणान्धीकृतमुभयबलम् । न खलु गगनतलं लक्ष्यते । )

 उभौ--ततस्ततः ।

 सुन्दरकः-- तो देव ! दूराकट्टिअधणुग्गुणाच्छोडणटङ्कारेण गम्भीरभीसणेण जाणीअदि गज्जिदं पलअजलहरेण त्ति ।( ततो देव! दूराकृष्टधनुर्गुणाच्छोटनटङ्कारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति ।)

 दुर्योधनः--ततस्ततः ।

 सुन्दरकः--तदो देव ! दोहिणं वि ताणं अण्णोण्णसीहणादगज्जिदपिसुणाणं विविहपरिमुक्कप्पहरणाहदकवअसंगलिदजलण विज्जुच्छडाभासुरं गम्भीरन्थणिदचापजलहरं प्पसरन्तसरधारासहस्सवरिसं जादं समलदुद्दिणम् ।