पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६६

पुटमेतत् सुपुष्टितम्
५६
वेणीसंहारे

जुत्तं मह कुविदस्स अभिमुहं ठादुम् । किं उण भवदो बालस्स । ता गच्छ । अवरेहिं कुमारेहिं आओधेहि त्ति । एव्वं वाअं णिसमिअ गुरुअणाहिक्खेवेण उद्दीविदकोवोवरत्तमुहमण्डलविअम्भिअभिउडीभङ्गभीसणेण चावधारिणा कुमालविससेणेण मम्मभेदएहिं परुसविसमेहिं सुदिवहकिदप्पणएहिं णिब्भच्छिदो गण्डीवी बाणेहिं ण उण दुठ्ठवअणेहिं । ( ततो देव! तीक्ष्णविक्षिप्तनिशितभल्लबाणवर्षिणा घनंजयेनेषद्विहस्य भणितम्-- अरे रे वृषसेन! पितुरपि तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुम् । किं पुनर्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैर्युध्यस्वेति । एवं वाचं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटीभङ्गभीषणेन चापधारिणा कुमारवृषसेनेन मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भत्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः । )

 दुर्योधनः-- साधु वृषसेन! साधु । सुन्दरक ! ततस्ततः ।

 सुन्दरकः-- तदो देव! णिसिदसराभिघादवेअणोवजादमण्णुणा किरीटिणा चण्डगण्डीवजीआसद्दणिज्जिदवज्जणिग्घादघोसेण बाणणिपडणपडिसिद्धदंसणप्पसरेण प्रत्युदं सिक्खाबलाणुरूवं किं वि अच्चरिअम् । ( ततो देव! निशितशराभिघातवेदनोपजातमन्युना किरीटिना चण्डगाण्डीवजीवाशब्दनिर्जितवज्रनिर्घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् ।)

 दुर्योधनः-- ( साकूतम् ।) ततस्ततः ।

 सुन्दरकः–- तदो देव ! तं तारिसं पेक्खिअ सत्तुणो समरव्वावारचउरत्तणं अविभाविदतूणीरमुहधणुग्गुणगमणागमणसरसंधाणमोक्खचडुलकरअलेण कुमालविससेणेण वि सविसेसं पत्थुदं समलकम्म । ( ततो देव! तत्तादृशं प्रेक्ष्य शत्रोः समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसंधानमोक्षचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म ।)

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः--तदो देव ! अत्थन्तरे विमुक्कसमरव्वावारो मुहुत्तविस्सामिदवेराणुबन्धो दोणं वि कुरुराअपण्डवबलाणं ‘साहु कुमालविससेण ! साहु' त्तिकिदकलअलो वीरलोओ अवलोइदुं पउत्तो । ( ततो देव ! अत्रान्तरे विमुक्तसमरव्यापारो मुहूर्तविश्रमितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः 'साधु कुमारवृषसेन! साधु' इति कृतकलकलो वीरलोकोऽवलोकयितुं प्रवृत्तः । )