पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६७

पुटमेतत् सुपुष्टितम्
५७
चतुर्थोऽङ्कः ।

 दुर्योधनः--( सविस्मयम् ।) ततस्ततः ।

 सुन्दरकः--तदो अ देव । अवहीरिदसअलराअधाणुक्कचक्कपराक्कमसालिणे सुदस्स तहाविहेण समलकम्मालम्भेण हरिसरोसकरुणासकंडे वट्टमाणस्स सामिणो अङ्गराअस्स णिवडिआ सरपद्धई भीमसेणे वप्फपज्जाउला दिट्ठी कुमालविससेणे । ( ततश्च देव! अवधीरितसकलराजधानुष्कचक्रपराक्रमशालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वामिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने । )

 दुर्योधनः--( सभयम् ।) ततस्ततः ।

 सुन्दरकः–-तदो अ देव ! उभअबलप्पउत्तसाहुकारामरिसिदेण गण्डीविणा तुरगेसु सारहिं वि रहवरे धणुं वि जीआइं वि णलिन्दलञ्छणे सिदादवत्ते वि अ व्वावारिदो समं सिलीमुहासारो । ( ततश्च देव! उभयबलप्रवृत्तसाधुकारामर्षितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रेऽपि च व्यापारितः समं शिलीमुखासारः । )

 दुर्योधनः-- ( सभयम् ।) ततस्ततः ।

 सुन्दरकः--तदो देव ! विरहो लूणगुणकोदण्डो परिब्भमणमेत्तव्वावारो मण्डलाइं विरअइदुं पउत्तो कुमालविससेणो । ( ततो देव! विरथो लूनगुणकोदण्डः परिभ्रमणमात्रव्यापारो मण्डलानि विरचयितुं प्रवृत्तः कुमारवृषसेनः । )

 दुर्योधनः--( साशंकम् । ) ततस्ततः ।

 सुन्दरकः--तदो देव ! सुदरहविद्धंसणामरिसिदेण सामिणा अङ्गराएण अगणिदभीमसेणाभिजोएण पडिमुक्को धणंजअस्स उवरि सिलीमुहासारो । कुमालो वि परिजणोवणीदं अण्णं रहं आरुहिअ पुणो वि प्पउत्तो । धणंजएण सह आ ओघेदुम् । ( ततो देव ! सुतरथविध्वंसनामर्षितेन स्वामिनांगराजेनागणितभीमसेनाभियोगेन परिमुक्तो धनंजयस्योपरि शिलीमुखासारः । कुमारोऽपि परिजनोपनीतमन्यं रथमारुह्य पुनरपि प्रवृत्तो धनंजयेन सह योद्धुम् )

 उभौ–-साधु वृषसेन ! साधु । ततस्ततः ।

 सुन्दरकः--तदो देव ! भणिदं अ कुमालेण --'रे रे तादाहिक्खेवमुहल मज्झमपण्डव । मह सरा तुह सरीरं उज्झिअ अण्णस्सिं ण णिवडन्ति' त्ति । भणिअअ सरसहस्सेहिं पण्डवसरीरं पच्छादिअ सिंहणादेन गज्जिदुं