पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६८

पुटमेतत् सुपुष्टितम्
५८
वेणीसंहारे

पउत्तो । ( ततो देव! भणितं च कुमारेण-- 'रे रे ताताधिक्षेपमुखर मध्यमपाण्डव! मम शरास्तव शरीरमुज्झित्वान्यस्मिन्न निपतन्ति' इति भणित्वा च शरसहस्रैः पाण्डवशरीरं प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः । )

 दुर्योधनः--( सविस्मयम् । ) अहो! बालस्य पराक्रमो मुग्धस्वभावस्याऽपि । ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! तं सरसंपादं समवधुणिअ णिसिदसराभिघादजादमण्णुणा किरीटिणा ग्गहीदा रहुच्छङ्गादो क्कणन्तकणअकिङ्किणीजालझङ्कारविराइणी मेहोवरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्धमुही विविहरअणप्पहाभासुरभीसणरमणिज्जदंसणा सत्ती विमुक्का अ कुमालाहिमुही । ( ततश्च देव! तं शरसंपातं समवधूय निशितशराभिघातजातमन्युना किरीटिना गृहीता रथोत्संगात्क्वणत्कनककिंकिणीजालझंकारविराविणी मेघोपरोधविमुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना शक्तिर्विमुक्ता च कुमाराभिमुखी ।)

 दुर्योधनः-- ( सविषादम् ) अहह! ततस्ततः ।

 सुन्दरकः--तदो देव ! पज्जलन्तीं सत्तिं पेक्खिअ विअलिअं अङ्गराअस्स हत्थादो ससरं धणू हिअआदो वीरसुलहो उच्छाहो णअणादो बप्फसलिलं वि । रसिदं अ सिंहणादं विओदलेण । दुक्कलं दुक्कलं त्ति आक्कन्दिदं कुरुबलेण । ( ततो देव ! प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमंगराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्बाष्पसलिलमपि । रसितं च सिंहनादं वृकोदरेण । दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन ।)

 दुर्योधनः--( सविषादम् ।) ततस्ततः ।

 सुन्दरकः --तदो देव ! कुमालविससेणेण आकण्णाकिट्टणिसिदखुरप्पेण सुचिरं णिज्झाइअ अद्धपहे एव्व भाईरही विअ भअवदा विसमलोअणेण त्तिधा किदा सत्ती । ( ततो देव! कुमारवृषसेनेनाकर्णाकृष्टनिशितक्षुरप्रेण सुचिरं निध्यायार्धपथ एव भागीरथीव भगवता विषमलोचनेन त्रिधा कृता शक्तिः ।)

 दुर्योधनः-- साधु वृषसेन! साधु । ततस्ततः ।

 सुन्दरकः-- तदो अ देव | एदस्सिं अन्तरे कलमुहरेण वीरलोअसाहुवादेण अन्तरिदो समरतूरणिग्घोसो । सिद्धचालणगणविमुक्ककुसुमप्पअरेण