पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६९

पुटमेतत् सुपुष्टितम्
५९
चतुर्थोऽङ्कः ।

पच्छादिदं लमलङ्गणम् । भणिअं अ सामिणा अङ्गराएण--'भो वीर विकोदल ! असमत्तो तुह मह वि समलव्वावारो । ता अणुमण्ण मं मुहुत्तअम् । पेक्खावो दाव वच्छस्स तुह भादुणो अ घणुव्वेदसिक्खाचउरत्तणम् । तुह वि एदं पेक्खणिज्जं' त्ति । ( ततश्च देव ! एतस्मिन्नन्तरे कलमुखरेण वरलोकसाधुवादेनान्तरितः समरतूर्यनिर्घोषः सिद्धचारणगणविमुक्तकुसुमप्रकरेण प्रच्छादितं समराङ्गणम् । भणितं च स्वामिनाङ्गराजेन-- 'भो वीर वृकोदर! असमाप्तस्तव ममापि समव्यापारः । तदनुमन्यस्व मां मुहूर्तम् । प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षाचतुरत्वम् । तवाप्येतत्प्रेक्षणीयम्' इति । )

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो देव ! विस्समिदाओधणव्वावारा मुहुत्तविस्समिदणिअवेराणुबन्धा दुवे वि पेक्खआ जादा भीमसेणाङ्गराआ । ( ततो देव ! विश्रमितायोधनव्यापारौ मुहूर्तविश्रमितनिजवैरानुबन्धौ द्वावपि प्रेक्षकौ जातौ भीमसेनाङ्गराजौ ।)

 दुर्योधनः--( साभिप्रायम् ।) ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! सत्तिखण्डणामरिसिदेण गण्डीविणा भणिदम्--'अरे रे दुज्जोहणप्पमुहा ! ( ततश्च देव ! शक्तिखण्डनामर्षितेन गाण्डीविना भणितम्-- 'अरे दुर्योधनप्रमुखाः ! ) ( इत्यर्धोक्ते लज्जां नाटयति ।)

 दुर्योधनः-- सुन्दरक ! कथ्यताम् । परवचनमेतत् ।

 सुन्दरकः-- सुणादु देवो । 'अरे दुज्जोहणप्पमुहा कुरुबलसेणाप्पहुणो ! अविणअणोअण्णहार कण्ण ! तुह्मेहिं मह परोक्खं बहुहिं महारहेहिं पडिवारिअ एआई मह पुत्तओ अहिमण्णू व्वावादिदो । अहं उण तुह्माणं पेक्खन्ताणं एव्व एदं कुमालविससेणं सुमलिदुव्वसेसं करोमि' त्ति । भणिअ अ सगव्वं आप्फालिदं णेण वज्जणिग्घादघोसभीसणजीआरअं गण्डीवम् । सामिणा वि सज्जीकिदं काळपुट्ठम् । ( शृणोतु देवः । 'अरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः! अविनयनौकर्णधार कर्ण! युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः । अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि' इति । भणित्वा च सगर्वमास्फालितमननवज्रनिर्घातघोषभीषणजीवारवं गाण्डीवम् । स्वामिनापि सज्जीकृतं कालपृष्ठम् ।)

 दुर्योधनः-- ( सावहित्थम् ।) ततस्ततः ।