पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७०

पुटमेतत् सुपुष्टितम्
६०
वेणीसंहारे

 सुन्दरकः-- तदो अ देव ! पडिसिद्धभीमसेणसमलकम्मालम्मेण गण्डीविणा विरइदा अङ्गराअविससेणरहकूलंकसाओ दुवे बाणणदीओ । तेहिं वि दुवेहिं अण्णोण्णासिणेहदसिदसिक्खाविसेसेहिं अभिजुत्तो सो दुराआरो मज्झमपण्डवो । ( ततश्च देव! प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विरचितेऽङ्गराजवृषसेनरथकूलंकषे द्वे बाणनद्यौ । ताभ्यामन्योन्यस्नेहदर्शितशिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः ।

 दुर्योधनः-- ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! गण्डीविणा ताररसिदजीआणिग्घोसमेत्तविण्णादबाणवरिसेण तह आअरिदं पत्तिहि जह ण णहत्तलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण बलाइं ण सारही ण तुलङ्गमा ण दिसाओ ण वीरलोओ अ लक्खीअदि ! ( ततश्च देव! गाण्डीविना ताररसितजीवानिर्घोषमात्रविज्ञातबाणवर्षेण तथाचरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिर्न तुरंगमा न दिशो न वीरलोकश्च लक्ष्यते ।)

 दुर्योधनः-- ( सविस्मयम् ।) ततस्ततः ।

 सुन्दरकः--तदो अ देव ! अदिक्कन्ते सरवरिसे क्खणमेत्तं ससीहणादे पण्डअबले विमुक्काक्कन्दे कोरअबले उत्थिदो महन्तो कलअलो हा हदो कुमालविससेणो हा हदो त्ति । ( ततश्च देव ! अतिक्रान्ते शरवर्षे क्षणमात्रं ससिंहनादे पाण्डवबले विमुक्ताक्रन्दे कौरवबल उत्थितो महान्कलकलो हा हतः कुमारवृषसेनो हा इत इति ।)

 दुर्योधनः-- ( सबाष्परोधम् ) ततस्ततः ।

 सुन्दरकः-- तदो अ देव ! पेक्खामि कुमालं हदसारहितुलङ्गं लूणादवत्तचावचामरकेदुवंसं सग्गब्भट्टं विअ सुलकुमालं हिअअमम्मभेदिणा एक्केण सिलीमुहेण भिण्णदेहं रहमज्झे पल्लत्थम् । ( ततो देव पश्यामि कुमारं हतसारथितुरंगं लूनातपत्रचापचामरकेतुवंशं स्वर्गभ्रष्टमिव सुरकुमारं हृदयमर्मभेदिनैकेन शिलीमुखेन भिन्नदेहं रथमध्ये पर्यस्तम् । )

 दुर्योधनः--( सास्रम् )अहह कुमारवृषसेन ! अलमतः परं श्रुत्वा । हा वत्स वृषसेन ! हा मदङ्कदुर्ललित! हा गदायुद्धप्रिय! हा राधेयकुल-