प्ररोह! हा प्रियदर्शन! हा दुःशासननिर्विशेष! हा सर्वगुरुवत्सल! प्रयच्छ मे प्रतिवचनम् ।
पर्याप्तनेत्रमचिरोदितचन्द्रकान्त- |
सूतः-- आयुष्मन्! अलमत्यन्तदुःखावेगेन ।
दुर्योधनः-- सूत! पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः
प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना । |
( इति मोहमुपगतः । )
सूतः-- समाश्वसितु समाश्वसितु महाराजः । (इति पटान्तेन वीजयति ।)
दुर्योधनः--( लब्धसंज्ञः ।) भद्र सुन्दरक! ततो वयस्येन किं प्रतिपन्नमङ्गराजेन?
सुन्दरकः–- तदो अ देव ! तहाविधस्स पुत्तस्स दंसणेण संगलिदं अस्सुजलं उज्झिअ अणवेक्खिदपरप्पहरणेण सामिणा अभिजुत्तो धणंजओ । तं अ सुदवहामरिसुद्दीविदपरक्कमं तह परिक्कमन्तं पेक्खिअ णउलसहदेवपञ्चालप्पमुहेहिं अंतरिदो धणंजअस्स रहवरो । ( ततश्च देव! तथाविधस्य पुत्रस्य दर्शनेन संगलितमश्रुजलमुज्झित्वानवेक्षितपरप्रहरणेन स्वामिनाभियुक्तो धनंजयः । तं च सुतवधामर्षोद्दीपितपराक्रमं तथा परिक्रामन्तं प्रेक्ष्य नकुलंसहदेवपांचालप्रमुखैरन्तरितो धनंजयस्य रथवरः ।)
दुर्योधनः-- ततस्ततः ।
सुन्दरकः-- तदो देव ! सल्लेण भणिदम्--'अंगराअ ! हदतुलंगमो भग्गकूवरो दे रहो ता ण जुत्तं भीमाज्जुणेहिं सह आजुज्झिदुम्' त्ति । तदो पडिवट्टिदो रहो ओदारिदो सामी सन्दणादो बहुप्पआरं अ समस्सासिदो । तदो अ सामिणा सुइरं विलविअ परिअणोवणीदं अण्णं रहं पेक्खिअ दीहं निस्ससिअ मइ दिट्टी विणिक्खिविदा । सुन्दरअ ! एहि त्ति भणिदं अ । तदो अहं उगवदो सामिसमविम् । तदो अवणीअ सीसट्ठाणादो