पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७४

पुटमेतत् सुपुष्टितम्
 

वेणीसंहारे

पञ्चमोऽङ्कः


( ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च ।)

 धृतराष्ट्रः--संजय! कथय कस्मिन्नुद्देशे कुरुकुलकाननैकशेषप्रवालो वत्सो मे दुर्योधनस्तिष्ठति ? । कच्चिज्जीवति वा न वा ? ।

 गान्धारी--जाद ! जइ सच्चं जीवदि मे वच्छो ता कहेहि कस्सिं देसे वट्टइ। (जात! यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते )

 संजयः- -नन्वेष महाराज एक एतन्न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।

 गान्धारीः--(सकरुणम् ।) जाद ! एआइ त्ति भणासि । किं णु क्खु संपदं भादुसदं से पास्से णत्थि ? ( जात ! एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे नास्ति ?)

 संजयः--तात! अम्ब! अवतरतं स्वैरं रथात् ।

(सर्वेऽवतरणं नाटयन्ति ।)

( ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः!)

 संजयः-- ( उपसृत्य । ) विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः किं न पश्यति महाराजः ? ।

( दुर्योधनो वैलक्ष्यं नाटयति ।)

 धृतराष्ट्रः--

शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे
 बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः ।
दूरान्निर्जितसान्त्वितान्नरपतीनालोकयँल्लीलया
 सह्या पुत्रक! वेदनेति न मया पापेन पृष्टो भवान् ॥ १ ॥

( धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिंगतः । )

 गान्धारी-- वच्छ ! अदिगाढप्पहारवेअणापज्जाउलस्स्स अम्हेसु सण्णिहिदेसु वि ण प्पसरदि दे वाणी । ( वत्स! अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रचरति ते वाणी ।