पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७५

पुटमेतत् सुपुष्टितम्
६५
पञ्चमोऽङ्कः ।

 धृतराष्ट्र:--वत्स दुर्योधन! किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ? ।

 गान्धारी-- वच्छ ! जइ तुमं वि अम्हे णालवसि ता किं संपदं वच्छो दुस्सासणो आलवदि अध दुम्मरिसणो वा अण्णो वा ? ( वत्स! यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपत्यथ दुर्मर्षणो वान्यो वा ? )

( इति रोदिति )

 दुर्योधन--

जातोऽहमप्रतिकृतानुजनाशदर्शी
 तातस्य बाष्पपयसां तव चाम्ब! हेतुः ।
दुर्जातमत्र विमले भरतान्वये वः
 किं मां सुतक्षयकरं सुत इत्यवैषि ॥ २ ॥

 गान्धारी--जाद ! अलं परिदेविदणे । तुमं वि दाव एक्को इमस्स अन्ध जुअलस्स मग्गोवदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा । ( जात! अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ? । )

 दुर्योधनः--

मातः! किमप्यसदृशं कृपणं वचस्ते
 सुक्षत्रिया क्व भवती क्व च दीनतैषा ? ।
निर्वत्सले! सुतशतस्य विपत्तिमेतां
 त्वं नानुचिन्तयसि रक्षसि मामयोग्यम् ॥ ३ ॥

नूनं विचेष्टितमिदं सुतशोकस्य ।

 संजयः–- महाराज! किं वायं लोकवादो वितथो 'न घटस्य कूपपतने रज्जुरपि तत्र प्रक्षेप्तव्या' इति ।

 दुर्योधनः--अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ?

( इति रोदिति ।)

 धृतराष्ट्रः--(दुर्योधनं परिष्वज्य । ) वत्स! समाश्वसिहि । समाश्वासय चास्मानिमामतिदीनां मातरं च ।

 दुर्योधनः–- तात! दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु

कुन्त्या सह युवामद्य मया निहतपुत्रया ।
विराजमानौ शोकेऽपि तनयाननुशोचतम् ॥ ४ ॥