धृतराष्ट्रः-- वत्स दुर्योधन! एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितावलम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ? ।
दुर्योधनः-- श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् ।
कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः |
विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् ।
( नेपथ्ये महान्कलकलः )
गान्धारीः--( आकर्ण्य । सभयम् )जाद! कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि । ( जात! कुत्रैतत् हाहाकारमिश्रं तुर्यरसितं श्रूयते ।)
संजयः-- अम्ब! भूमिरियमेवंविधानां भीरुजनत्रासजननी महानिनादानाम् ।
धृतराष्ट्रः-- वत्स संजय । ज्ञायताम् । अतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् ।
दुर्योधनः-- तात! प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय ।
गांधारी–- जाद! मुहुत्तअं दाव मं मन्दभाइणीं समस्ससेहि। ( जात ! मुहूर्ते तावन्मां मन्दभागिनीं समाश्वासय । )
धृतराष्ट्रः–- वत्स! यद्यपि भवान्समराय कृतनिश्चयस्तथापि रह: परप्रतीघातोपायश्चिन्त्यताम् ।
दुर्योधनः--
प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः । |
गान्धारीः–-जाद ! एआई तुमम् । को दे सहाअत्तणं करिस्सदि ? । ( जात! एकाकी त्वम् । कस्ते साहाय्यं करिष्यति?)