पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८०

पुटमेतत् सुपुष्टितम्
७०
वेणीसंहारे

अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः
 शोच्यां दशामुपगतः सह भार्ययाहम् ।
अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे ।
 दुर्योधनेऽपि हि कृतो भवता निराशः ॥ १३ ॥

वत्स दुर्योधन ! समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।

 दुर्योधनः--( लब्धसंज्ञः । )

अयि कर्ण कर्णसुखदां प्रयच्छ मे
 गिरमुद्गिरन्निव मुदं मयि स्थिराम् ।
सततावियुक्तमकृताप्रियं प्रिय
 वृषसेनवत्सल ! विहाय यासि माम् ? ॥ १४ ॥

( इति पुनर्मोहमुपगतः )

( सर्वे समाश्वासयन्ति । )

 दुर्योधनः--

मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।
उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात का कथा ? ॥ १५ ॥

अपि च ।

शोचामि शोच्यमपि शत्रुहतं न वत्सं
 दुःशासनं तमधुना न च बन्धुवर्गम् ।
येनातिदुःश्रवमसाधु कृतं तु कर्णे ।
कर्तास्मि तस्य निधनं समरे कुलस्य ॥ १६ ॥

 गान्धारी--जाद ! सिढिलेहि दाव क्खणमेत्तं बप्फमोक्खम् । ( जात ! शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् )

 धृतराष्ट्रः--वत्स ! क्षणमात्रं परिमार्जयाश्रूणि ।

 दुर्योधनः--

मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः ।
तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ? ॥ १७ ॥

सूत ! केनैतदसंभवनीयमस्मत्कुलान्तकरणं कर्म कृतं स्यात् ? ।