सूतः--आयुष्मन् ! एवं किल जनः कथयति ।
भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य । |
दुर्योधनः--कष्टं भोः कष्टम् ।
कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः । |
तात ! अम्ब ! प्रसीदतम् ।
ज्वलनः शोकजन्मा मामयं दहति दुःसहः । |
धृतराष्ट्रः--(दुर्योधनं परिष्वज्य रुदन् ।)
भवति तनय नित्यं संशयः साहसेषु |
गान्धारी--जाद ! तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गसि ? । (जात! तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गसि ? )
दुर्योधनः-- तिष्ठतु तावद्वृकोदरः ।
पापेन येन हृदयस्य मनोरथो मे । |
सूत! अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।
सूतः–- अलमन्यथा संभावितेन । अयमहमागत एव । ( इति निष्क्रान्तः । )
धृतराष्ट्रः--वत्स दुर्योधन! यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् ।
दुर्योधनः--नन्वभिषिक्त एव ।