पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८३

पुटमेतत् सुपुष्टितम्
७३
पञ्चमोऽङ्कः ।

( ततः प्रविशतो भीमार्जुनौ ।)

 भीमः–-भो भोः सुयोधनानुजीविनः ! किमिति संभ्रमादयथातथं चरन्ति भवन्तः ? । अलमावयोः शङ्कया ।

कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी ।
 कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
 क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥ २६ ॥

 धृतराष्ट्र--संजय ! दारुणः खलूपक्षेपः पापस्य ।

 संजयः–-तात ! कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति ।

 दुर्योधनः--सूत ! कथय गत्वोभयोरयं तिष्ठतीति ।

 सूतः--यथाज्ञापयति देवः । ( तावुपसृत्य ।)ननु भो वृकोदरार्जुनौ ! एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।

 अर्जुनः--आर्य ! प्रसीद । न युक्तं पुत्रशोकोपपीडितौ पितरौ पुनरस्मद्दर्शनेन भृशमुद्वेजयितुम् । तद्गच्छावः ।

 भीमः--मुढ ! अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुम् । ( उपसृत्य । ) संजय । पित्रोर्नमस्कृतिं श्रावय । अथवा तिष्ठ । स्वयमेव श्रावयावः ।( इति रथाद्वतरतः )

 भीमः--विश्राव्य स्वकर्म नाम च वन्दनीया गुरवः ।

 अर्जुनः--( उपगम्य ।) तात ! अम्ब !

सकलरिपुजयाशा यत्र बद्धा सुतैस्ते
 तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य
 प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ २७ ॥

 भीमः--

चूर्णिताशेषकौरव्यः क्षीबो दुःशासनःसृजा ।
भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥ २८ ॥

१०